भारत देशः
दिव्यात्मा विश्व प्रकाशते भास्कर भारत देशः ।
गुञ्जति गीता-सन्देशः ॥ १॥
ऋषिभिर्मुनिभिर्यतीयोगिभिर्ज्ञानं पूर्वं दत्तं
भारत-भूमिः सदा शिक्षते रामकृष्णयोर्वृत्तम्,
ईश्वर-शरणं गन्तव्यं सर्वोपरि कृष्णादेशः ॥ २॥
शोभन्ते निष्क्रियाः न तस्मात्कर्म सदा वरणीयं
मोक्षार्थिने फलेच्छारहितं कर्म किन्तु करणीयम्,
कर्मसु कौशलमेव तु योगः कथयतीति योगेशः ॥ ३॥
कर्त्ताभावो यदा विद्यते कर्मफलं भोक्तव्यम्,
सर्वस्वं भगवन्तं मत्वा तस्मै समर्पितव्यम्,
क्षयति कल्मषान् क्लेशान् कष्ट कृष्ण एवं करुणेशः ॥ ४॥
भारतदेशे विद्यन्ते गौरिव गुरुगीतागङ्गाः
जले स्थले आकाशे राजति राष्ट्र-ध्वजा-त्रिरङ्गा,
सफलाः कथं शत्रवो रक्षति हिमालयो गोपेशः ? ॥ ५॥
विश्वस्मिन् विदुषां वीराणां भूमिरियं विख्याता,
प्राणेभ्योऽपि प्रिया समेषां वन्द्या भारतमाता,
पुनः भविष्यति भारतस्य गौरवपूर्णः प्रभुवेशः ॥ ६॥
भगत-सुभाष-भगत-सुभाष-
गान्धि-तिलकाः भारतमातुः सुकुमाराः,
``प्रेम''-शान्ति-करुणा सेवा प्रसारणी-भारतधारा,
हिंसावैरघृणा-भावानामिह वर्जितः प्रवेशः ॥ ७॥
-- प्रेम शङ्कर शर्मा
Encoded and proofread by Mohan Chettoor