भारतगीतिका
अलं भारतीया मतानां विभेदै-
रलं देशभेदेन वैरेण चालम् ।
अयं शाश्वतो धर्म एको धरायां
न सम्भाव्यते धर्मतत्वेषु भेदः ॥ १॥
दया भूतसंङ्घे, मतिर्देवदेवे
चतुर्वर्गचिन्ता, विरोधाद् विरामः ।
मनःकायवाक्शोधने चैव बुद्धिः
परं धर्मतत्वं विरोधोऽत्र केषाम्? ॥ २॥
नराः सर्व एकैकमीशं भजन्ते
स ईशः परं नामभेदेन भिन्नः ।
समुद्भासितो धर्म एतेन चैको
विचिन्त्येति को वर्ततां भेदवादे? ॥ ३॥
कलिङ्गाङ्गवङ्गान्ध्रकद्राविडादी-
नुपाधीन् विहायैक्यमालम्ब्य भूयः ।
अये भारतीयाः, पुरेवात्मरूपं
लभध्वं, यशश्चन्द्रशुभ्रं तनुध्वम् ॥ ४॥
Encoded and proofread by Sumedh Sathaye