भारतमात्मनिर्भरम्
अस्माकमेतस्य पवित्र-धाम्नो
विख्यात-नाम्नः प्रिय-भारतस्य ।
श्रुतं चिरं सांस्कृतिकं महत्त्वं
व्यक्तं हि देशात्मबलं जगत्याम् ॥ १॥
आस्माकीनं भारतं जन्मभूमिः
पूज्यं सर्वैः भारतं कर्मभूमिः ।
तस्यामेवं स्वावलम्बो विधेयः
स्वीयोद्योगैः सौख्यराशिः प्रदेयः ॥ २॥
अर्थोऽस्ति मूलं खलु जीविकाया
ध्यानं प्रदेयं सुतरां तदर्थम् ।
नार्थं विना जीवनमस्ति सार्थं
मूल्यं यतोऽर्थस्य महत् प्रशस्यम् ॥ ३॥
गृहे कुटुम्ब-प्रतिपोषणार्थं
सन्त्यर्थलाभाय जनाः कृतोद्यमाः ।
कृत्वा निशाहं नितरां परिश्रमं
वित्तं स्वयोग्यं समुपार्जितुं क्षमाः ॥ ४॥
श्रमस्य मूल्यं भवतीह नाल्पं
जानाति कर्मी निज-मर्मगाथाम् ।
क्षेत्रेष्वनेकेषु जनः श्रमस्य वै
सम्यक् प्रकुर्याद् विनियोगमेवम् ॥ ५॥
न सर्वदाऽन्योपरि निर्भरत्वं
काम्यं हि लोके विविधे प्रसङ्गे ।
स्वात्मावलम्बी लभते स्वबुद्ध्या
मोदं प्रतोषं द्रविणं च गौरवम् ॥ ६॥
याच्ञा परेषां पुरतो न शोभना
हस्त-प्रसारस्तनुते स्वदीनताम् ।
तदात्मनैवात्मन इष्ट-साधनं
कुर्याद् यथाशक्ति जनो विवेकवान् ॥ ७॥
धर्मो हि कर्माचरणं स्वकीयं
तत्रैव चित्तं सुनिवेशयेन् नरः ।
स्वकर्म-सक्तिः खलु गौरवावहा
स्वकर्मयोगः सततं शुभास्पदम् ॥ ८॥
ज्ञान-कर्म-भक्तिमार्ग-माध्यमेन निश्चितं
स्वावलम्बशीलता हि भारते विराजताम् ।
हार्दिकी सहायता सुगीयतां परस्परं
नूतनं चिरन्तनं स्वभारतं विराजताम् ॥ ९॥
स्वनिर्भरत्वे निज-देश-मुद्राः
स्थास्यन्ति नूनं निज-देशमध्ये ।
स्वदेशि-वस्तु प्रति लोक-चित्तं
भवेत् समाकर्षितमेव नित्यम् ॥ १०॥
वैदेशिकं वस्तु विहाय कार्यः
स्वदेशि-वस्तु-व्यवहार एवम् ।
अर्थव्यवस्था सुदृढा ततो भवेत्
स्वनिर्भरत्वे सति भारते नः ॥ ११॥
उद्योग-संस्था बृहती भवेन् नवा
क्षुद्रापि देशे विविधा भविष्यति ।
जना नियुक्तिं सुतरां लभेरन्
स्वल्पे च शिल्पेऽप्यथवा विशाले ॥ १२॥
आवश्यकीं चार्थ-सहायतां वै
कर्त्तुं सयत्नाः प्रिय-सर्वकाराः ।
स्वेच्छानुसारं ह्यनुकूलमिष्टं
चेष्यन्ति कार्यं निज-देशवासिनः ॥ १३॥
देशे स्वके नागरिका हि भारते
प्राप्स्यन्ति सामर्थ्यमुपार्जनार्थम् ।
अनेन वृद्धिं निज-कर्मदक्षता
याता स्वकार्येषु जनस्य कुर्वतः ॥ १४॥
त्यक्त्वा स्वराज्यं समुपार्जनार्थं
गन्तव्यमन्यत्र न भावि जीवितुम् ।
स्थित्वा स्वराज्ये प्रतिभां विकाशयन्
जनो भवेद् वै गृहे चात्मनिर्भरः ॥ १५॥
भवेत् समेषां सहभागिता मिथः
परस्परं सम्भविता सहायता ।
केन्द्रस्य राज्यस्य च सर्वकाराः
सर्वे सहाया भवितार एवम् ॥ १६॥
जनाः प्रकामं स्वयमेव कौशलं
कार्ये स्वदेशे विविधे लभेरन् ।
अभीष्ट-कर्मादिषु सन्नियुक्ताः
स्वीयावलम्बं गमितारो नन्दिताः ॥ १७॥
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher