भारतमहिमा
भारतदेशो विभूषितवेशो विशेषविलासस् त्रिभुवने विराजते ।
मम देशो वेदवाणी प्रकाशते ॥
भवनेषु धूमः शुभगन्धयुतोऽयं - व्याप्नुते हवनाश्रितो,
विद्यापिपासु-ब्रह्मचारिगणोऽयं - राजते च कुले गुरोः ।
आम्रनिकुञ्जे ३, आम्रनिकुञ्जे कोकिलकूजो गुञ्जति वारंवारम्,
पश्य शोभा कथं रमणीया सदा वरणीया ।
वसन्त समागमे ॥ १॥
मम देशो वेदवाणी प्रकाशते ॥
बहवो बभूवुरिह क्षत्रियावीरा - धार्मिका जनपालकाः
श्री कृष्णचन्द्रं रामभद्रं राघवं - को न बोधति धन्विनम् ।
महाभारते३, महाभारते युद्धे भीमार्जुनयोर्विक्रम चरितम्,
वीरभूमे! नमो मातृभूमे ! धान्यधन पूर्णे! ।
सदा शस्यश्यामले ! ॥ २॥
मम देशो वेदवाणी प्रकाशते ॥
चरणानि यस्य सततं क्षालयते - दक्षिणादिशि सागरो,
शैलाधिराजो रमते चोत्तरस्यां - देवतात्म-हिमालयो ।
गङ्गातीरे ३, गङ्गातीरे निर्मलनीरे नृत्यति नौकायानम्,
शीतवातोऽरविन्द-सुगन्धं प्रसारयतेऽयम् ।
विशाल-सरोवरे ॥ ३॥
मम देशो वेदवाणी प्रकाशते ॥
--- प्रशस्यमित्रशास्त्री