भारतराष्ट्रम्
भारतराष्ट्रं लोकतान्त्रिकम् ।
अत्र स्वातन्त्र्यं स्वधार्मिकम् ॥ १॥
देशोऽयं वर्तते पुराणः,
विश्वात्मा मानवता-प्राणः,
लोकजीवनं पारमार्थिकम् ॥ ३॥
प्राचीना संस्कृतिः सभ्यता,
कणे कणे भगवद् व्यापकता,
भगवत्त्वं तत्पराभौतिकम् ॥ ४॥
अधुनातनमपि शिक्षातन्त्रं
नवमन्त्रो प्रचलति नव-यन्त्रं
यतो वर्तते युगं यान्त्रिकम् ॥ ५॥
पुत्राः पित्रा सह निवसन्ति,
पाठमेकतायाश्च पठन्ति,
भवति जीवनं पारम्परिकम् ॥ ६॥
चितो जनमतेन नु विधायकः,
तेषामेको राष्ट्रनायकः,
चिन्मः सत्यं शिवं शान्तिकम् ॥ ७॥
-- प्रेम शङ्कर शर्मा