भारत राष्ट्रे परमर्षीणां विज्ञानं विजयताम्
भारत राष्ट्रे परमर्षीणां विज्ञानं विजयताम्,
विज्ञानं विजयताम् ।
पाञ्चभौतिकं रहस्यजातं ऋतम्भराप्रज्ञया वीक्षितं
निगमागम मन्त्रेषुसञ्चितं पुरातनं यत् यत् सनातनम् ॥ १॥
पुनरपि विद्योतताम् ।
अन्तरिक्षगतभगणज्ञानं, जलनिधितलगतसृष्टिज्ञानं
परमाणूनामन्तज्र्ञानं, सकललोकहितसुखार्थमनिशम् ॥ २॥
भुवने प्रकाशताम् ।
कणादसुश्रुतपतञ्जलीनां, ब्रह्मगुप्तभास्करादिकानां
ज्ञाननिधीनां विबुधवराणां, सत्यसनातनतत्वदर्शिनाम् ॥ ३॥
परम्परा वर्धताम् ।
भारतस्य यत् जगत्गुरुपदं अनादिसिद्धं भूषणास्पदं
राष्ट्रमण्डले पूजनास्पदं विद्याव्रतपालनैरखण्डम् ॥ ४॥
पुनरपि संस्थाप्यताम् ।