भारतवन्दना १
ज्ञान विज्ञान-सन्दोहा, कान्ति-शान्ति-स्वरूपिणीम् ।
अमरा भारती देवी, वन्दे मातरमन्वहम् ॥
षष्टि-कोटि-नरैर्युक्ता, द्विषष्टि कोटि-हस्तकाम् ।
गुणिभिः श्रमिभिर्जुष्टा, वन्दे मातरमन्वहम् ॥
बङ्ग-पञ्चनदैहृद्याम्, असमोत्कल-शोभिनीम् ।
कश्मीर-राजस्थानाढ्या, वन्दे मातरमन्वहम् ॥
मध्योत्तर-प्रदेशाभ्यां, विहारेण च भास्वतीम् ।
गुजरैस्तमिलं कान्ता, वन्दे मातरमन्वहम् ॥
केरलेनान्ध्रकेणेष्टा, हिमाचल-मनोरमाम् ।
महाराष्ट्रेण सन्दीप्ता, वन्दे मातरमन्वहम् ॥
कर्णाट-गीत-सङ्गीता, हरियाणा-विभास्वराम् ।
मेघालयेन संहृष्टा, वन्दे मातरमन्वहम् ॥
त्रिपुरा-मणिपूर्भ्यां च, सिक्खिमेन मनोहराम् ।
नागालैण्ड गुणैर्रम्या, वन्दे मातरमन्वहम् ॥
स्वच्छ-कीर्ति-सुधा-सिक्ता, विद्वन्मौक्तिक-मालिनीम् ।
वीराङ्गनां-यशः-शुभ्रा, वन्दे मातरमन्वहम् ॥
ज्ञान-विज्ञान-सम्पुष्टैः, राष्ट्रोत्थान-परायणे ।
क्रान्ति-दूतैः स्तुता हृद्या, वन्दे मातरमन्वहम् ॥
रोग-शोक-भय क्रोधं-दुःख-दारिद्र्य-नाशिनीम् ।
सर्वज्ञा देवजुष्टा ता, वन्दे मातरमन्वहम् ॥
Proofread by Mandar Mali