ब्रह्मपुराणान्तर्गते भारतवर्षानुकीर्तनम्

ब्रह्मपुराणान्तर्गते भारतवर्षानुकीर्तनम्

ब्रह्मोवाच - श‍ृणुध्वं मुनयः सर्वे यद्वो वक्ष्यामि साम्प्रतम् । पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ १॥ पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । कर्मणः फलभूमिश्च स्वर्गं च नरकं तथा ॥ २॥ तस्मिन्वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः । अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥ ३॥ ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक्सुसंयताः । प्राप्नुवन्ति परां सिद्धिं तस्मिन्वर्षे न संशयः ॥ ४॥ धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः ॥ प्राप्नोति पुरुषः सवै तस्मिन्वर्षे तु संयतः ॥ ५॥ इन्द्राद्याश्च सुराः सर्वे तस्मिन्वर्षे द्विजोत्तमाः । कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ ६॥ अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः । तस्मिन्वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ ७॥ ये चापि स्वर्गे तिष्ठन्ति विमानेन गत ज्वराः । तेऽपि कृत्वा शुभं कर्म तस्मिन्वर्षे दिवं गताः ॥ ८॥ निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः । स्वर्गापवर्गफलदे तत्पश्यामः कदा वयम् ॥ ९॥ मुनय ऊचुः - यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् । पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ १०॥ ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते । न वान्यत्र च मर्त्यानां भूमौ कर्म विधीयते ॥ ११॥ तस्माद्विस्तरतो ब्रह्मन्नस्माकं भारतं वद । यदि तेहि दयाऽस्मासु यथावस्थितिरेव च ॥ १२॥ तस्माद्वर्षमिदं नाथ ये वाऽस्मिन्वर्षपर्वताः । भेदाश्च तस्य वर्षस्य ब्रूहि सर्वानशेषतः ॥ १३॥ ब्रह्मोवाच - श‍ृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः । समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥ १४॥ इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् । नाग द्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ १५॥ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानाञ्च साहस्रं द्वीपोऽयं दक्षिणोत्तरः ॥ १६॥ पूर्वे किराता यस्याऽऽसन्पश्चिमे यवनास्तथा । ब्राह्मणाः क्षत्रिया वैश्याः शुद्धाश्चात्र स्थिता द्विजाः ॥ १७॥ इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपा वनाः । तेषां सद्व्यवहारश्च एभिः कर्मभिरिष्यते ॥ १८॥ स्वर्गापवर्गहेतुश्च पुण्यं पापं च वै तथा । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ १९॥ विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः । तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ २०॥ विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः । कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ २१॥ वाताध्वगो दैवतश्च मैनाकः सुरसस्तथो । तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डुराचलः ॥ २२॥ पुष्पगिरिर्वैजयन्तो रैवतोऽर्बुद एव च । ऋष्यमूकस्तु गोमन्थः कृतशैलः कृताचलः ॥ २३॥ श्रीपर्वतश्चकोरश्च शतशोऽन्ये च पर्वताः ॥ तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥ २४॥ तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः । गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथाऽपरा ॥ २५॥ यमुना शतद्रुर्विपाशा वितस्तैरावती कुहूः । गोमती धूतपापा च बाहुदा च दृषद्वती ॥ २६॥ विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा । कौशिकी चाऽऽपगा चैव हिमवत्पादनिःसृताः ॥ २७॥ देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च । वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ २८॥ चर्मण्वती वृषी चैव विदिशा वेत्रवत्यपि । शिप्रा द्रवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ २९॥ शोणा महानदी चैव नर्मदा सुरथा क्रिया । मन्दाकिनी दशार्णा च चित्रकूटा तथाऽपरा ॥ ३०॥ चित्रोत्पला वेत्रवती करमोदा पिशाचिका । तथाऽन्याऽतिलघुश्रोणी विपाशा शैवला नदी ॥ ३१॥ समेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः । ऋतपादप्रसूता वै तथाऽन्या वेगवाहिनी ॥ ३२॥ शिप्रा पयोष्णी निर्विन्ध्या तापी चैत्र सरिद्वरा । वेणा वैतरणी चैत्र सिनीवाली कुमुद्रती ॥ ३३॥ तोया चैव महागौरी दुर्गा चान्तःशिला तथा । विन्ध्यपाद प्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ ३४॥ गोदावरी भीमरथी कृष्णवेणा तथाऽऽपगा । तुङ्गभद्रा सुप्रयोगा तथाऽन्या पापनाशिनी ॥ ३५॥ सह्यपाद विनिष्क्रान्ता इत्येताः सरितां वराः । कृतमाला ताम्रपर्णी पुष्पवत्युपलावती ॥ ३६॥ मलयादिसमुद्भूताः पुण्याः शीतजलास्त्विमाः । पितृसोमर्षि कुल्या च वञ्जुला त्रिदिवा च या ॥ ३७॥ लाङ्गलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः । सुविकाला कुमारी च मनुगा मन्दगामिनी ॥ ३८॥ क्षया पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः । सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्गाः ॥ ३९॥ विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः । अन्याः सहस्रशः सन्ति क्षुद्रनद्यो द्विजोत्तमाः ॥ ४०॥ प्रावृट्कालवहाः सन्ति सदा कालवहाश्च याः । मत्स्याः कुमुदमाल्याश्च ऋतुलाः काशिकोशलाः ॥ ४१॥ (मत्स्या मुकुटकुल्याश्च कुन्तला काशिकोशलाः) ॥ ४१॥ अन्धकाश्च कलिङ्गाश्च मशकाश्च वृकैः सह । मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥ ४२॥ सह्यस्य चोत्तरे यस्तु यत्र गोदावरी नदी । पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ ४३॥ गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः । वाहीकराटधानाश्च सुतीराः कालतोयदाः ॥ ४४॥ अपरान्ताश्च शूद्राश्च बाहिकाश्च सकेरलाः । गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥ ४५॥ शतगुहाः कलिङ्गाश्च पारदा हरिभूषिकाः । माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥ ४६॥ क्षत्त्रियोपदे शाश्च वैश्यशूद्रकुलानि च । काम्बोजाश्चैव विप्रेन्द्रा बर्बराच सलौकिकाः ॥ ४७। वीराश्चैव तुषाराश्च पह्लवाधायता नराः । आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥ ४८॥ लम्पकाः शुनशोकाश्च कुलिका जाङ्गलैः सह । औषध्यश्चलचन्द्राश्च किरातानां च जातयः ॥ ४९॥ तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा । शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥ ५०॥ एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत ॥ अन्धा वामङ्कुराकाश्च वल्लकाश्च मखान्तकाः ॥ ५१॥ तथाऽपरेऽङ्गा वङ्गाश्च मलदा मालवर्तिकाः । भद्रतुङ्गाः प्रतिजया भार्याङ्गाश्चापमर्दकाः ॥ ५२॥ प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥ ५३॥ अथापरे जनपदा दक्षिणापथवासिनः ॥ पूर्णाश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥ ५४॥ ऋषिका मुषिकाश्चैव कुमारा रामठाः शकाः । महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ ५५॥ आभीराः सह वैशिक्या अटव्याः सरवाश्च ये । पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥ ५६॥ पौलिका मौलिकाश्चैत्र अश्मका भोजवर्धनाः । कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥ ५७॥ दाक्षिणात्यास्त्वमी देशा ह्यपरान्तान्निबोधत । शूर्पारकाः कालिधना लोलास्तालकटैः सह ॥ ५८॥ इत्येते ह्यपरान्ताश्च श‍ृणुध्वं विन्ध्यवासिनः । मलजाः कर्कशाश्चैव मेलकाश्चोकैः सह ॥ ५९॥ उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह । तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ ६०॥ तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह । अभया रुण्डिकेराश्च चर्चरा होत्रधर्तयः ॥ ६१॥ एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः । अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ ६२॥ नीहारास्तुषमार्गाश्च कुरवस्तुङ्गणाः खसाः । कर्णप्रावरणाश्चैव ऊर्जा दर्घाः सकुञ्चकाः ॥ ६३॥ चित्रमार्गा मालवाश्च किरातास्तोमरैः सह । कृतत्रेता दिकश्चात्र चतुर्युगकृतो विधिः ॥ ६४॥ एवं तु भारतं वर्ष नवसंस्थानसंस्थितम् । दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥ ६५॥ हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः । तदेतद्भारतं वर्ष सर्वबीजं द्विजोत्तमाः ॥ ६६॥ ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा । मृगयक्षाप्सरोयानिं तद्वत्सर्प सरीसृपाः ॥ ६७॥ स्थावरणां च सर्वेषामितो विप्राः शुभाशुभैः । प्रयान्ति कर्मभूर्विप्रा नान्या लोकेषु विद्यते ॥ ६८॥ देवानामपि भो विप्राः सदैवैष मनोरथः । भारतं भवमाप्स्यामो देवत्वात्प्रच्युताः क्षितौ ॥ ६९॥ मानुष्यं कुरुते यत्तु तन्न शक्यं सुरासुरैः । तत्कर्म निरतैस्तैस्तु तत्कर्मक्षपणोन्मुखैः ॥ ७०॥ न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः । यत्र विप्रादयो वर्णाः प्राप्नुवन्त्याभिवाञ्छितम् ॥ ७१॥ धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः । धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥ ७२॥ प्राप्यते यत्र तपसः फलं परमदुर्लभम् । सर्वदानफलं चैव सर्व यज्ञफलं तथा ॥ ७३॥ तीर्थयात्राफलं सम्यक् गुरुसेवाफलं तथा । देवताराधनफलं गार्हस्थ्ये चैव यत्फलम् ॥ ७४॥ यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् । नानावतफलं चैव नानाशास्त्रफलं तथा ॥ ७५॥ अहिंसादिफलं सम्यक्फलं सर्वाभिवाञ्छितम् । ब्रह्मचर्यफलं चैव स्वाध्यायेन च यत्फलम् ॥ ७६॥ यत्फलं वनवासेन संन्यासेन च यत्फलम् । इष्टापूर्तफलं चैव तथाऽन्यच्छुभकर्मणाम् ॥ ७७॥ प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः । कः शक्नोति गुणान्वक्तुं भारतस्याखिलान्द्विजाः ॥ ७८॥ एवं सम्यङ्मया प्रोक्तं भारतं वर्षमुत्तमम् । सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥ ७९॥ य इदं श‍ृणुयान्नित्यं जपेद्वा नियतेन्द्रियः । सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८०॥ ॥ इति ब्रह्मपुराणे भारतवर्षानुकीर्तनम् ॥ ॥ ब्रह्मपुराणम् । स्वयम्भ्वृषिसंवादे भारतवर्षानुकीर्तनम् ॥ (भारतखण्डप्राशस्त्यर्णनम्, तत्स्थगिरिनदीनां वर्णनम्, तदन्तर्गतानानाविधदेशवर्णनम्, तन्माहात्म्यफलकथनञ्च) .. brahmapurANam . svayambhvRRiShisaMvAde bhAratavarShAnukIrtanam .. (bhAratakhaNDaprAshastyarNanam, tatsthagirinadInAM varNanam, tadantargatAnAnAvidhadeshavarNanam, tanmAhAtmyaphalakathanancha) Notes: Brahma Purāṇa ब्रह्म पुराण; in this chapter has the description about Bhāratavarṣa भारतवर्ष as one of it’s subcontinent that is constituted of Nine Parts viz. Indradvīpa इन्द्रद्वीप, Kaśerumān कशेरुमान्, Tāmraparṇa ताम्रपर्ण, Gabhasti गभस्ति, Saumya सौम्य, Gāndharva गान्धर्व, Varuṇa वरुण, Nāga नाग, and Bhārata भारत. Seven Principal Mountain Ranges, i.e. Kulaparvata कुलपर्वत include: Mahendra महेन्द्र, Malaya मलय, Sahya सह्य, Śuktimata शुक्तिमत, Ṛkṣa ऋक्ष, Vindhya विन्ध्य, Pāriyātra पारियात्र. Several regions, climes, rivers and their tributaries are outlined. The chapter numbering in the referenced publications varies. Encoded and proofread by Ruma Dewan
% Text title            : Bharatavarshanukirtanam in Brahmapurana
% File name             : bhAratavarShAnukIrtanambrahmapurANa.itx
% itxtitle              : bhAratavarShAnukIrtanam (brahmapurANAntargatam)
% engtitle              : bhAratavarShAnukIrtanam
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : brahmapurANam . svayambhvRRiShisaMvAde
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : November 19, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org