भाति मे भारतम्
भाति मे भारतम्, भाति मे भारतम् ।
भूतले भाति मेऽनारतं भारतम् ॥ ध्रुवकम् ॥
मानवामानितं दानवाबाधितं
निर्जराराधितं सज्जनासाधितम् ।
पण्डितैः पूजितं पक्षिभिः कूजितं
भूतले भाति मेऽनारतं भारतम् ॥ १॥
यस्य सन्दृश्य सन्दृश्य शोभा नवा
यस्य संस्मृत्य संस्मृत्य गाथा नवाः।
रोमहर्षो नृणां जायते वै सतां
भूतले भाति तन्मामकं भारतम् ॥ २॥
यच्च विश्रामभूमिर्मतं प्राणिनां
यस्य चित्ते प्रभ्तोऽवकाशस्तथा ।
यत्र चागत्य गन्तुं न कोऽपीच्छुको
भूतले भाति तन्मामकं भारतम् ॥ ३॥
पण्डितैर्योद्धभिर्वाणिजैः कार्मिकैः
शस्त्रिभिः शास्त्रिभिवर्णिभिर्गोहिभिः।
वानप्रस्थैश्च संन्यासैभिर्मण्डितं
भूतले भाति मेऽनारतं भारतम् ॥ ४॥
- डाॅ रमाकान्त शुक्ल