श्रीभावानन्दाचार्यकृतं भावनात्रयम्
नत्त्वा रामं च श्रीरामानन्दं भाष्यकृतं गुरुम् ।
हितावहं मुमुक्षूणां करोमि भावनात्रयम् ॥ १॥
निजं कारागृहे बद्धं पतितं च महार्णवे ।
भुजङ्गविषमूढं च मुमुक्षुर्भावयेत् सदा ॥ २॥
तत्र कारागृहं देहस्तथा देहानुबन्धिनः ।
सम्बन्धिश्च विज्ञेया भार्यापुत्रादयः खलु ॥ ३॥
तत्रस्था अवगन्तव्या अहन्ताममतादयः ।
आवरणं तथा चाशाऽविवेको निगडो मतः ॥ ४॥
दशेन्द्रियाणि बोध्यानि तत्रस्था अधिकारिणः ।
आलम्बनं मनो ज्ञेयं बद्धोऽहं स्वेन कर्मणा ॥ ५॥
मोचको मम तस्माद्धि श्रीरामः सकलेश्वरः ।
मुमुक्षुर्भावयेदेवं काराबद्धं निजं सदा ॥ ६॥
इति श्रीभावान्दाचार्यकृते भावनात्रये काराबद्धभावनात्मकः प्रथमः ।
परिच्छेदः ॥ १॥
आशामहाम्बुभिः पूर्णः संसारश्च महार्णवः ।
वायुक्षोभो मतस्तत्र विकारो मानसश्च हि ॥ १॥
रागः खलु महावर्त्तो यादांसि ममतादयः ।
परम्परा बोध्यास्तत्र चाध्यात्मिकादयः ॥ २॥
तनुर्भग्नः प्लवो वेद्यो भारास्तद्रक्षणादयः ।
महार्णवे च तस्मिन् पतितः स्वेन कर्मणा ॥ ३॥
तारको मम तस्माद्वि श्रीरामः सकलेश्वरः ।
क्षुर्भावयेदेवं महाब्धौ पतितं निजम् ॥ ४॥
इति श्रीभावानन्दाचार्यकृते भावनात्रये महार्णवपतितभावनात्मको द्वितीयः ।
परिच्छेदः ॥ २॥
वल्मीकं च तनुस्तत्र भुजङ्गा इन्द्रियाणि हि ।
तद्विषयस्तस्य सन्निधिर्दंशनं मतम् ॥ १॥
विषयानुभवो व्याप्तिर्मोहो मूर्च्छा प्रकीर्त्तिता ।
भुजङ्गदष्टोऽस्मि स्वेनैव खलु कर्मणा ॥ २॥
विषघ्नमौषधं चात्र श्रीरामः सकलेश्वरः ।
क्षुर्भावयेदेवं सर्पदष्टं निजं सदा ॥ ३॥
इति श्रीभावानन्दाचार्यकृते भावनात्रये भुजङ्गविषमूढभावनात्मकर्तृतीयः ।
परिच्छेदः ॥ ३॥
रामानन्दार्यशिष्यश्रीभावानन्दार्यनिर्मितम् ।
मोदावहं मुमुक्षूणां भवताद् भावनात्रयम् ॥
इति श्रीभावानन्दाचार्यकृतं भावनात्रयं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey