भृगुप्रोक्तं सृष्टिवर्णनम्
मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः ।
अनादिनिधनो देवस्तथाभेद्योऽजरामरः ॥ ११॥
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः ।
यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ॥ १२॥
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः ।
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥ १३॥
आकाशादभवद्वारि सलिलादग्निमारुतौ ।
अग्निमारुतसंयोगात्ततः समभवन्मही ॥ १४॥
ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा ।
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ॥ १५॥
अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् ।
ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः ॥ १६॥
शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी ।
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥ १७॥
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः ।
अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते ॥ १८॥
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ ।
दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः ॥ १९॥
स एव भगवान्विष्णुरनन्त इति विश्रुतः ।
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः ॥ २०॥
अहङ्कारस्य यः स्रष्टा सर्वभूतभवाय वै ।
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥ २१॥
इति महाभारते शान्तिपर्वणि १७५ अध्यायान्तर्गतं
भृगुप्रोक्तं सृष्टिवर्णनं सम्पूर्णम् ।
महाभारत । शान्तिपर्व । अध्याय १७५/११-२०॥
mahAbhArata . shAntiparva . adhyAya 175/11-20..
Proofread by PSA Easwaran