भज वेदमतम्
अयि मानव सभ्य शृणु प्रिय हे
भव जागरितं कुरु मानविकम् ।
निजमानसिकं त्यज दुष्टतरं
चिरशान्तिपथं भज वेदमतम् ॥ १॥
श्रुतिसम्मतशाश्वतसारतरं
स्मृतिगौरववर्द्धनगौरवरम् ।
भुवि धर्मसहायकभक्तियुतं
चिरशान्तिपथं भज वेदमतम् ॥ २ ॥
मखनिर्जितसौख्यमपूर्वकरं
मधुहोमविशेषणसारधरम् ।
घृतपायसपिष्टकहव्यधृतं
चिरशान्तिपथं भज वेदमतम् ॥ ३॥
त्रिदशालयसाधककर्मगुणं
गुणवैदिकभूसुरसारलितम् ।
चरमं परमं वरदानयुतं
चिरशान्तिपथं भज वेदमतम् ॥ ४॥
स्तवमन्त्रमहार्णवसूक्तरतं
बहुतन्त्रविशोधितसाक्ष्यधृतम् ।
करुणामयशाश्वतनित्यनुतं
चिरशान्तिपथं भज वेदमतम् ॥ ५॥
मुनिचोदितदिव्यदृशा चरमं
परमं विनिवेदितधर्मधनम् ।
खिलमानवसम्बलकारुणिकं
चिरशान्तिपथं भज वेदमतम् ॥ ६॥
परमेश्वरवैभवभूमितलं
शुभशङ्खनिनादितपापहरम् ।
गुरुपावकमुज्ज्वलमास्यगतं
चिरशान्तिपथं भज वेदमतम् ॥ ७॥
कृतकर्मफलं फलति प्रतिमं
प्रतिवत्सरयज्ञसमाचरितम् ।
शुभवैदिकमन्त्रमहाध्वनितं
चिरशान्तिपथं भज वेदमतम् ॥ ८॥
इति भज वेदमतं (अष्टकं) सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com