भजेऽहं मुदा भारतं तं स्वदेशम्
सदाज्ञानविध्वंसकारी मनोज्ञः
समालोक्यते यत्र वाणी-विहारः ।
विधत्ते स्वमित्रं च यः प्राणिमात्रं
भजेऽहं मुदा भारतं तं स्वदेशम् ॥ १॥
कुटुम्बं धरित्री दया यस्य मित्रं
मनुष्यत्वसेवा यदीयोऽस्ति धर्मः ।
असत्यं च शत्रुः समस्तेऽपिलोके
भजेऽहं मुदा भारतं तं स्वदेशम् ॥ २॥
स्वकीयां बुभुक्षां पिपासां नियम्य
सदा रक्षिता येन भीताः प्रपन्नाः ।
यमाहुर्विदग्धास्तथा शान्तिदूतं
भजेऽहं मुदा भारतं तं स्वदेशम् ॥ ३॥
न मम्लौ यदीयं मुखं निःस्वतायां
विमूढं च चित्तं च वित्तोपलभे ।
सदा दानशीलश्च यो याचकेभ्यो
भजेऽहं मुदा भारतं तं स्वदेशम् ॥ ४॥
कला कालिदासस्य बाणस्य वाणी
रवीन्द्रस्य गीतिर्विवेकस्य वाणी ।
लता-तानसेन-स्वरा यत्र मुग्धाः
भजेऽहं मुदा भारतं तं स्वदेशम् ॥ ५॥
अतीतं भविष्यत्तथा वर्तमानं
जगत्प्रेरणादायकं वै यदीयम् ।
चतुर्वर्गसिद्धिं दिशन् यः प्रसिद्धो
भजेऽहं मुदा भारतं तं स्वदेशम् ॥ ६॥
- डाॅ रमाकान्त शुक्ल