भवतु भूतये भारती
स्फटिकमालिनी हेमकच्छपी धवलवस्त्रभृद् हस्तपुस्तिका ।
कविवरार्चिता हंसवाहिनी भवतु भूतये भारती सदा ॥ १॥
स्मितसुधाप्रभा भक्ततापहृन् मधुरभाषिणी कोकिलस्वरा ।
निखिलदर्शिका खञ्जनेक्षणा भवतु भूतये भारती सदा ॥ २॥
मुखसुधाकराद् भक्तहृन्नभस्तिस्मिरनाशकृत्पूर्णिमा सुभा ।
कुमुदभूषणा शर्वरी यथा भवतु भूतये भारती तथा ॥ ३॥
सकलकामदा कामधेनुका परमपावनी मुक्तिदायिनी ।
स्वजनपालिनी काशिका यथा भवतु भूतये भारती तथा ॥ ४॥
पतितपावनी जह्नुजा यथा शमनभीतिहृद् भानुजा यथा ।
शिवखनिर्नदी नर्मदा यथा भवतु भूतये भारती तथा ॥ ५॥
-- पं. रामरूप पाठकः
Encoded and proofread by Payodhi Deshpande