भुवमवतीर्णा नाकस्पर्धिनी
भुवमवतीर्णा नाकस्पर्धिनी
भारतधरणीयं, मामकजननीयम् ॥
शिरसि हिमालय-मुकुट-विराजिता
पादे जलधिजलेन परिप्लुता
मध्ये गङ्गापरिसरपूता
भारतधरणीयं, मामकजननीयम् ॥ १॥
काश्मीरेषु च वर्षति तुहिनं
राजस्थाने प्रदहति पुलिनं
मलयस्थाने वाति सुपवनः
भारतधरणीयं, मामकजननीयम् ॥ २॥
नानाभाषि-जनाश्रय-दात्री
विविध-मतानां पोषणकर्त्री
नानातीर्थ-क्षेत्रसवित्री
भारतधरणीयं, मामकजननीयम् ॥ ३॥
पुण्यवतामियमेव हि नाकः
पुण्यजनानां रुद्रपिनाकः
पुण्यपराणामाश्रयलोकः
भारतधरणीयं, मामकजननीयम् ॥ ४॥
- जि. महाबलेश्वरभट्टः
Encoded and proofread by Shubha shubhazero at gmail.com