ब्रह्मचर्यम्
यस्मिन् प्रदीपे शलभन्ति दोषाः
यस्मिन् सुधांशौ परितापशान्तिः ।
यस्मिन् समुद्रे गुणरत्नभूति-
स्तद् ब्रह्म को न स्पृहयेत् सचेताः ॥ १॥
यस्मिन् दिनेशे परितप्यमान-
उपद्रवध्वान्तमुपैति नाशम् ।
इष्टार्थसम्पादनकल्पवृक्षेऽ-
स्मिन् ब्रह्मचर्ये सुधियो यतेरन् ॥ २॥
सिंहासने चोपविशन् सुरेन्द्रः
प्रवन्दते यान् शुचिभक्तिनम्रः ।
ते ब्रह्मचर्यव्रतबद्धचित्ता
मनस्विनो मर्त्त्यभुवां जयन्ति ॥ ३॥
फलन्ति मन्त्रा वहते च कीर्त्ति-
रध्यासते सन्निधिमप्यमर्त्याः ।
यस्मिन् सति प्रस्फुरितप्रभावे
तद् ब्रह्मचर्य सुविचारलभ्यम् ॥ ४॥
अस्थ्नां प्रभूतं बलमपर्यन्तं
रक्तप्रवाहं प्रविकासयन्तम् ।
मुखे प्रतापारुणतां दधानं
न कः सुधीर्ब्रह्मयमं सुरक्षेव् ॥ ५॥
न तं शरत्पर्वहिमांशुरोचिः
प्रह्लादमुत्पादयितुं क्षमेत ।
न तं रसं दिव्यफलानि चापि
ह्लादं रसं ब्रह्म यमातनोति ॥ ६॥
इति मुनि न्यायविजयो न्यायतीर्थः विरचितः
ब्रह्मचर्योपदेशः सम्पूर्णः ।
Proofread by Varun P.