ब्रह्मविद्योपासना
निर्धूतनिखिलध्वान्ते नित्यमुक्ते परात्परे ।
अनुसदध्महे ब्रह्मविद्ये त्वां हृदयाम्बुजे ॥ १॥
आद्याहन्ता-वृत्तिमात्रां पूर्णाहम्भावभावुकाम् ।
अहम्ब्रह्मसंविदं त्वामाद्यांविद्यामुपास्महे ॥ २॥
वेदागमशिशुक्रीडा विनोदरसिकां शिवाम् ।
व्यासादि-श्रीगुरूपास्यां विद्याम्बां त्वामुपास्महे ॥ ३॥
वीणाश्रुत्यन्त-नादान्त-शान्ततन्मात्रमातृकाम् ।
ताखिलदिगन्तां तां परान्तां त्वामुपास्महे ॥ ४॥
ऐं ह्रीं श्रीं बीजरूपान्तां ओङ्कारार्थ-स्वरूपिणीम् ।
उमाहैमवतीत्युक्तां श्रुत्यन्ते त्वामुपास्महे ॥ ५॥
श्रीपादुका-महामन्त्र सौधश्रृङ्गार-शारिकाम् ।
चतुः श्रुतिमहावाक्य-वाटिकान्तामुपास्महे ॥ ६॥
इति ब्रह्मविद्योपासना सम्पूर्णा ।
Proofread by Narendran Madathil