चटक चटक
चटक, चटक, रे चटक !
चिवँ, चिवँ, कूजसि त्वं विहग ! ॥ ध्रुवम्॥
नीडे निवससि सुखेन डयसे
खादसि फलानि मधुराणि ।
विहरसि विमले विपुले गगने
नास्ति जनः खलु वारयिता ॥ १॥
माता पितराविह मम न स्तः
एकाकी खलु खिन्नोऽहम् ।
एहि समीपं चिद् चिद् मित्र
ददामि तुभ्यं बहुधान्यम् ॥ २॥
चणकं स्वीकुरु पिब रे नीरं
त्वं पुनरपि रट चिवँ चिवँ चिवँ ।
तोषय मां कुरु मधुरालापं
पाठय मामपि तव भाषाम् ॥ ३॥
-विश्वासः