चक्रसंवरस्तुतिः
(हेरुकविशुद्धिस्तोत्रं वा)
ॐ नमः श्रीचक्रसंवराय ।
श्रीहेरुकं महावीरं चक्रसंवरसंवरम् ।
नमामि मारजेतारं डाकिनीजालमा(ना)यकम् ॥ १॥
वन्दे तां वज्रवाराहीं महारागानुरूपिणीम् ।
डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम् ॥ २॥
चत्वारो(त्वरेऽ)मृतभाण्डां च बोधिचित्तेन पूरिताम् ।
पुल्लीरमलयशिरसि प्रचण्डां वज्रडाकिनीम् ॥ ३॥
जालन्धरशिखां चैव चण्डाक्षीं गतकिल्विषाम् ।
ओडियानाह्वये सर्वे श्रोत्रे देवीं प्रभावतीम् ॥ ४॥
अर्बुदे पृष्ठवंशे तु महानासां नमाम्यहम् ।
गोदावरीं पुरे वामे कर्णे वीरमतीं शुभाम् ॥ ५॥
रामेश्वरीं भ्रुवोर्मध्ये खर्वरीं वरवर्णिनीम् ।
देवीकोट्टे स्थितां मैत्रे श्रीमल्लङ्केश्वरीप्रभाम् ॥ ६॥
मालवे स्कन्धदेशे तु द्रुमच्छायां नमाम्यहम् ।
कामरूपे कक्षद्वये देवीमैरावतीं शुभाम् ॥ ७॥
ओड्रे स्तनद्वये वापि श्रीमहाभैरवां सतीम् ।
त्रिशकुन्याह्वये नाभौ वायुवेगां मनोरमाम् ॥ ८॥
कोशले नासिकाग्रे वा सुराभक्षीं नमाम्यहम् ।
कलिङ्गे वदने रम्ये श्यामादेवीं सनातनीम् ॥ ९॥
लम्पाके कण्ठदेशे तु सुभद्रां वरसुन्दरीम् ।
काञ्चीप्रेतहृदये हयकर्णां मनोरमाम् ॥ १०॥
हिमालये पुरे मेढ्रे नमस्यामि खगाननाम् ।
प्रेतपुर्यां तथा लिङ्गे कौबेर्यां शस्यनीश्वरीम् ॥ ११॥
गृहदेवता गुदे स्थाने खण्डरोहां मनोहराम् ।
सौराष्ट्रे ऊरुयुगले शौण्डिनो सुखदायिनीम् ॥ १२॥
सुवर्णद्वीपे जङ्घायां संस्थितां चक्रवर्मिणीम् ।
नगरे चाङ्गुलीस्थाने सुवीरां वरयोगिनीम् ॥ १३॥
सिन्धौ च पादयोः पृष्ठे स्थितां देवीं महाबलाम् ।
मरौ चाङ्गुष्ठयुगले च संस्थितां चक्रवर्तिनीम् ॥ १४॥
कुलताजानुद्वये देवीं महावीर्या नमाम्यहम् ।
खण्डकपालवीराद्यां स्वप्रज्ञाशिष्टविग्रहाम् ॥ १५॥
मम भक्त्या महावीरां कायवाकचित्तचक्रगाम् ।
काकतुण्डीमुलूकास्यां श्वानास्यां शूकराननाम् ॥ १६॥
यमदाढीं यमदूतीं यमदंष्ट्रीं यमान्तिकाम् ।
एता देवीर्नमस्यामि दिग्विदिक्षु च संस्थिताः ॥ १७॥
वीरवीरेश्वरीनाथं हेरुकं परमेश्वरम् ।
स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम् ॥
तेन पुण्येन लोकोऽस्तु वज्रडाको जगद्गुरुः ॥ १८॥
इति श्रीचक्रसंवरस्य स्तुतिः समाप्ता ॥