चन्द्रोदयः
उदेति चन्द्रमा दूरे वनच्छन्ननभस्थले
रात्रिर्हसति सामोदं शुभ्रकान्तमुखाम्बुजा ।
आकाशं शोभते सम्यग् नक्षत्रैः रुचिरप्रभैः ।
उत्प्लुत्योत्प्लुत्य गच्छन्ती चन्द्रमेयं पतेद्भुवि
बालकैर्वर्धितोत्साहैः वीक्ष्यमाणैः सकौतुकम् ।
लीयन्ते चन्द्रकान्तास्तु कुमुदानि हसन्ति च
युवकाः उत्कण्ठितास्सर्वे कामिनीविरहशोषिताः। ।
उलूकाश्चक्रवाकाश्च समं स्वप्रणयिनीजनैः
स्वैरं कुर्वन्ति सञ्चारं वृक्षात् वृक्षं वनाद्वनम् ।
बालकाः वर्धितामोदाः अङ्कणेषु स्थिताः चिरम्
उन्मुखैः स्फारितैर्नेत्रैः ईक्षन्ते चन्द्रमां भृशम् ।
पश्य पश्याङ्क! हे पश्य कोस्यं हसति दिङ्मुखे
वारं वारं वदन्त्येवं माता भोजयति शिशुम् ।
ददती सर्वसौभाग्यं शीतञ्चामृतसन्निभम्
सौख्यञ्च चित्तसम्पूर्णं समेषां नेत्रधारिणाम् ।
--- विजयन् वि. पट्टाम्बी