चन्द्रोदयः
उदेति मेघमालासु तत्रैवास्तं करोति च ।
उदयास्तमयं दृश्यं सर्वचित्तप्रचोदकम् ॥
तारकानायकं पश्य रजतकान्तिसमन्वितम् ।
पश्यतां बालकेभ्यः स ददाति सुखदर्शनम् ॥
मृगं वा स शशाङ्कं वा उदरे वहति सदा ।
शशाङ्कश्च मृगाङ्कश्च तस्य नामद्वयं स्मृतम् ॥
बालकैस्तु प्रियश्चन्द्रः मामा मामेति गीयते ।
चन्द्रिका कस्य वा नेष्टा सुनेत्रद्वयधारिणाम् ॥
--- विजयन् वि. पट्टाम्बी