चिरनवीना संस्कृता
चिरनवीना संस्कृता एषा, गीर्वाणभाषा
चिरनवीना संस्कृता एषा ॥
महतो भूतस्य निःश्वसितं
अस्ति यस्याम्, अतिपुरातन-वेदसाहित्यं
शास्त्रपूरैः स्मृतिविचारैः
वरकवीनां काव्यसारैः
चित्रिता मञ्जुला मञ्जूषा, मञ्जुला भाषा ॥ १॥
वाल्मीकि-व्यास-मुनिरचितं,
रामायणं महाकाव्यं महाभारतं
क्लैब्यकिल्बिष-कलित-पार्थं
कार्यविषये योजयन्ती
अस्ति यस्यां भगवती गीता, भगवता कथिता ॥ २॥
मातृभाषा मातृभाषाणाम्, भवितुमर्हा
राष्ट्रभाषा भारतीयानाम्,
भवतु भाषाद्वेषनाशः
सर्वथा उद्घोषयामः
भारतीया भारती एषा, अनुपमा सरसा ॥ ३॥
- नारायणभट्टः
Encoded and proofread by Shubha shubhazero at gmail.com