दशभूमीश्वरो नाम महायानसूत्ररत्नराजस्तोत्रम्
शमदमनिरतानां शान्तदान्ताशयानां
खगपथसदृशानामन्तरीक्षसमानाम् ।
खिलमलविधुतनां मार्गज्ञानस्थितानां
शृणुत वरविशेषं बोधिसत्त्वांश्च श्रेष्ठान् ॥ १॥
कुशलसतसहस्रं सञ्चितं कल्पकोटया
सुबुद्धशतसहस्रं पूजयित्वा गृहीतम् ।
प्रत्येकजिनवरान्वै पूजयित्वा त्वनन्तान्
सकलजगहिताय जायते बोधिचित्तम् ॥ २॥
उत तपतपितानां क्षान्तिपारङ्गतानां
हृतश्रितचरितानां पुण्यज्ञानोद्गतानाम् ।
विपुलगतिमतीनां पुण्यज्ञानाशयानां
दशबलसमतुल्यं जायते बोधिचित्तम् ॥ ३॥
प्रमुदितसुमतीनां दानधर्मे रतानां
सकलजगहितार्थं नित्यमेवोद्यतानाम् ।
जिनगुणनिरतानां सत्त्वरक्षाव्रतानां
त्रिभुवनहितकर्तृ जायते बोधिचित्तम् ॥ ४॥
अकुशलविरतानां शुद्धमार्गे स्थितानां
व्रतनियमरतानां शान्तसौम्येन्द्रियाणाम् ।
जिनशरणगतानां बोधिचर्याशयानां
त्रिभुवनहितसाध्यं जायते बोधिचित्तम् ॥ ५॥
अनुगतकुशलानां क्षान्तिस्वारस्यभाजां
विदितगुणरसानां त्यक्तमानोत्सवानाम् ।
निहितशुभमतीनां दानसौम्याशयानां
सकलहितविधानं जायते बोधिचित्तम् ॥ ६॥
प्रचलति शुभकार्ये धीरवीर्याः सहाया
निखिलजनहितार्थं प्रोद्यते मानसिंहः ।
अविरतगुणसाध्या निर्जितक्लेशसन्धा
झटिति मनसि तेषां जायते बोधिचित्तम् ॥ ७॥
सुसमवहितचित्ता ध्वस्तमोहान्धकारा
विगलितमदमाना त्यक्तसङ्क्लिष्टमार्गाः ।
समसुखनिरता ये त्यक्तसंसारसङ्गा
झटिति मनसि तेषां जायते बोधिचित्तम् ॥ ८॥
विमलखसमचित्ता ज्ञानविज्ञानविज्ञा
निहतनमुचिमारा वान्तक्लेशाभिमानाः ।
जिनपदशरणस्था लब्धतत्त्वार्थकाये
सपदि मनसि तेषां जायते बोधिचित्तम् ॥ ९॥
त्रिभुवनशिवसाध्योपायविज्ञानधीराः
करिबलपरिहारोपायविदृद्धिमन्तः ।
सुगतगुणसमीहा ये च पुण्यानुरागा
सपदि मनसि तेषां जायते बोधिचित्तम् ॥ १०॥
त्रिभुवनहितकामा बोधिसम्भारपूर्त्यै
प्रणिहितमनसा ये दुष्करेऽपि चरन्ति ।
अविरतशुभकर्म प्रोद्यतां बोधिसत्त्वाः
सपदि मनसि तेषां जायते बोधिचित्तम् ॥ ११॥
दशबलगुणकामा बोधिचर्यानुरक्ता
विजितकरिबलौघास्त्यक्तमानानुषङ्गाः ।
अनुगतशुभमार्गा लब्धधर्मार्थकामा
झटिति मनसि तेषां जायते बोधिचित्तम् ॥ १२॥
इति गणितगुणांशा बोधिचर्याश्चरन्तु
जिनपदप्रणिधाना सत्समृद्धिं लभन्तु ।
त्रिभुवनपरिशुद्धा बोधिचित्तं लभन्तु
त्रिशरणपरिशुद्धा बोधिसत्त्वा भवन्तु ॥ १३॥
दशपारमिताः पूर्य दशभूमीश्वरो भवेत् ।
भूयोऽपि कथ्यते ह्येतच्छृणुतैवं समासतः ॥ १४॥
बोधिचित्तं यदासाद्य संप्रदानं करोति यः ।
तदा प्रमुदितां प्राप्तो जम्बूद्वीपेश्वरो भवेत् ॥ १५॥
तत्रस्थः पालयेत् सत्त्वान् यथेच्छप्रतिपादनैः ।
स्वयं दाने प्रतिष्ठित्वा परांश्चापि नियोजयेत् ॥ १६॥
सर्वान् बोधौ प्रतिष्ठाप्य सम्पूर्णदानपारगः ।
एतत्कर्मानुभावेन संवरं समुपाचरेत् ॥ १७॥
सम्पच्छीलं समाधाय संवरं कुशली भवेत् ।
ततः स विमलां प्राप्तश्चातुर्द्वीपेश्वरो भवेत् ॥ १८॥
तत्रस्थः पालयेत् सत्त्वानकुशलं निवारयेत् ।
स्वयं शीले प्रतिष्ठित्वा परांश्चापि नियोजयेत् ॥ १९॥
सर्वान् बोधौ प्रतिष्ठाप्य सम्पूर्णकुशली भवेत् ।
एतद्धर्मविपाकेन क्षान्तिव्रतमुपाश्रयेत् ॥ २०॥
सम्यक् क्षान्तिव्रतं धृत्वा क्षान्तिभृत् कुशली भवेत् ।
ततः प्राभाकरीं प्राप्तस्त्रयस्त्रिंशाधिपो भवेत् ॥ २१॥
तत्रस्थः पालयेत् सत्वान् क्लेशमार्गनिवारणैः ।
स्वयं क्षान्तिव्रते स्थित्वा परांश्चापि नियोजयेत् ॥ २२॥
सत्त्वान् बोधौ प्रतिष्ठाप्य शान्तिपारङ्गतो भवेत् ।
एतत्पुण्यविपाकेन वीर्यबलमुपाश्रयेत् ॥ २३॥
सम्यग् वीर्यं समाधाय वीर्यभृत्कुशली भवेत् ।
ततश्चार्चिष्मतीं प्राप्य सुधामाधिपतिर्भवेत् ॥ २४॥
तत्रस्थः पालयन् सर्वान् कुदृष्टीः सन्निवारयेत् ।
सम्यग्दृष्टौ प्रतिष्ठाय बोधयित्वा प्रयत्नतः ॥ २५॥
स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारङ्गतो भवेत् ॥ २६॥
एतत्पुण्यविपाकेन ध्यानपारं समारभेत् ।
सर्वक्लेशान् विनिर्जित्य समाधिसुस्थितो भवेत् ॥ २७॥
सम्यग्ध्यानं समाधाय समाधिकुशली भवेत् ।
ततः सुदुर्जयां प्राप्तः स तुषिताधिपो भवेत् ॥ २८॥
तत्रस्थः पालयेत्सत्त्वांस्तीर्थ्यमार्गनिवारणैः ।
सत्त्वधर्मं प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः ॥ २९॥
स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारङ्गतो भवेत् ॥ ३०॥
एतत्पुण्यविपाकेन प्रज्ञाव्रतमुपाश्रयेत् ।
सर्वान्मारान् विनिर्जित्य प्रज्ञाभिज्ञासमृद्धिमान् ॥ ३१॥
सम्यक् प्रज्ञां समाधाय स्वाभिज्ञाकुशली भवेत् ।
ततश्चाभिमुखीं प्राप्तः सुनिर्मिताधिपो भवेत् ॥ ३२॥
तत्रस्थः पालयेत् सत्त्वानभिमाननिवारणैः ।
शून्यतां सुप्रतिष्ठाप्य बोधयित्वा प्रयत्नतः ॥ ३३॥
स्वयं प्रज्ञाव्रते स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य प्रज्ञापारङ्गतो भवेत् ॥ ३४॥
एतत्पुण्यविपाकैश्च समुपायव्रतं चरेत् ।
सर्वदुष्टान् विनिर्जित्य सद्धर्मकुशली सुधीः ॥ ३५॥
समुपायविधानेन सत्त्वान् बोधौ नियोजयेत् ।
ततो दूरङ्गमां प्राप्तो वशवर्तीश्वरो भवेत् ॥ ३६॥
तत्रस्थः पालयेत्सत्त्वानभिसमयबोधनैः ।
बोधिसत्त्वनियामेषु प्रतिष्ठाय प्रबोधयेत् ॥ ३७॥
तत्रोपाये स्वयं स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य उपायपारगो भवेत् ॥ ३८॥
एतत्पुण्यानुभावश्च सुप्रणिधीनुपाश्रयेत् ।
मिथ्यादृष्टिं विनिर्जित्य सम्यग्दृष्टिः कृतो बुधैः ॥ ३९॥
सुप्रतिष्ठितचित्तेन सम्यग्बोधौ प्रतिष्ठितः ।
ततश्चाप्यचलां प्राप्तो बुद्धया साहस्रिकाधिपः ॥ ४०॥
तत्रस्थः पालयेत्सत्त्वान् त्रिपानं सम्पिबेत् शनैः ।
लोकधातौ परिज्ञाने प्रतिष्ठाप्य प्रबोधयेत् ॥ ४१॥
सुप्रणिधौ स्वयं स्थित्वा परांश्चापि नियोजयेन् ।
सर्वान् बोधौ प्रतिष्ठाप्य प्राणिषु पारगो भवेत् ॥ ४२॥
एतत्पुण्यानुसारैश्च बलव्रतमुपाश्रयेत् ।
सर्वदुष्टान् विनिर्जित्य सम्बोधिकृतनिश्चयः ॥ ४३॥
सम्यग्यत्नसमुत्साहैः सर्वतीर्थ्यान् विनिर्जयेत् ।
ततः साधुमतीं प्राप्तो महाब्रह्मा भवेत् कृती ॥ ४४॥
तत्रस्थः पालयन् सत्त्वान् बुद्धयानोपदेशनैः ।
सत्त्वासमपरिज्ञाने सम्यग्बोधौ प्रबोधयेत् ॥ ४५॥
स्वयं बले प्रतिष्ठित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य बलपारङ्गतो भवेत् ॥ ४६॥
एतत्पुण्यविपाकैश्च ज्ञानव्रतमुपाश्रयेत् ।
चतुर्मारान् विनिर्जित्य बोधिसत्त्वगुणाकरः ॥ ४७॥
सम्यग्ज्ञानं समाधाय सद्धर्मकुशलो भवेत् ।
धर्ममेघां ततः प्राप्तो महेश्वरो भवेत् कृती ॥ ४८॥
तत्रस्थः पालयन् सर्वान् सर्वाकारानुबोधनैः ।
सर्वाकारवरे ज्ञाने प्रतिष्ठाप्य प्रबोधयेत् ॥ ४९॥
स्वयं ज्ञाने प्रतिष्ठित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य ज्ञानपारङ्गतो भवेत् ॥ ५०॥
एतत्पुण्यानुभावैश्च दशभूमीश्वरो जिनः ।
सर्वाकारगुणाधारः सर्वज्ञो धर्मलाभवित् ॥ ५१॥
इति मत्वा भुवभिश्च सम्बुद्धपदलब्धये ।
दशपारमितारूपे चरितव्यं समाहितैः ॥ ५२॥
तथा बोधिं शिवां प्राप्य चतुर्मारान् विनिर्जयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्स्यथ ॥ ५३॥
एतज्ज्ञात्वा परिच्छायां चरध्वं बोधिशासने ।
निर्विघ्नं बोधिमासाद्य लभध्वं सौगतं पदम् ॥ ५४॥
एतास्ता खल्वाह जिनपुत्रो दशबोधिसत्त्वभूमयः समासतो निर्दिष्टाः
सर्वाकारवरोपेताः सर्वज्ञानानुगता द्रष्टव्याः । तस्यां वेलायामयं
त्रिसाहस्रलोकधातुषड्विकारं प्राकम्पत विविधानि च पुण्यानि
वियत्तो न्यपतन् । दिव्यमानुषकाणि च भूतानि संप्रवादितान्यभूवन्,
अनुमोदनांशगेन च यावदकनिष्ठभुवनं विज्ञप्तमभूत् ॥
इति श्रीबोधिसत्त्वचर्याप्रस्थानाद् दशभूमीश्वरो नाम
महायानसूत्ररत्नराजस्तोत्रं सम्पूर्णम् ॥