देश-गीतिका
भारत-माता परम-नमस्या विजयते,
स्वतन्त्रताया रण-वीराणां
सफल-तपस्या विजयते ।
परम-नमस्या विजयते ॥ (ध्रुवम्)॥
अम्बुधि-विधौत-सुमधुर-चरण-विलासा,
गङ्गा-सलिले सलील-सुललित-हासा ।
कुसुमारामे रसभर-सुरभि-समीरा,
तरुवर-पुञ्जे रञ्जित-मञ्जु-शरीरा ।
विहङ्ग-ताने मङ्गल-गाने
श्यामल-शस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ १॥
अखण्ड-भूमी मण्डित-विपुल-श्रीमा,
कुमारिकातो महती हिमगिरि-सीमा ।
वर्णिल-सुमनोमाला सौम्या प्रथिता,
भारतीयता-राष्ट्रिय-सूत्र-ग्रथिता ।
ऐक्य-विताने प्रिय-सन्ताने
वृत-वरिवस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ २॥
विदलित-वैरा वीर-प्रवरा धन्या,
सेना-त्रितयी विभाति जगत्यनन्या ।
यत्र पताका स्वान्ते शान्ति-विधात्री,
त्याग-सुमैत्री-समता-मोदित-गात्री ।
असौ त्रिरङ्गा प्रेम-तरङ्गा
ससौमनस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ ३॥
सुन्दर-मन्दिर-वृन्दै-र्विशेष-वेषा,
निसर्ग-सर्गे सराग-रङ्गोन्मेषा ।
स्वर्ग-सौख्यदा ख्यातालेख्य-निधाना,
महीयसीयं यशःपीयूष-पाना ।
कर्म-साधने शर्म-वर्धने
भुवां प्रशस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ ४॥
यत्र विचित्रा पवित्र-पूजित-वसुधा,
सदानवद्या विद्याराधित-विबुधा ।
विज्ञान-कला-प्रज्ञा-वैभव-भव्या,
कलितालोका लोके मानयितव्या ।
सुगुणाधारा संस्कृति-धारा
विमल-यशस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ ५॥
समान-मनसां सहभावत्वं सततम्,
संहति-मन्त्रः परमं ज्योति-र्नियतम् ।
अनेक-मार्गा गम्याः परमस्माकम्,
समं हि लक्ष्यं रक्ष्यं नयेन साकम् ।
मानवताया रम्य-शतदलं
हृदय-सरस्या विजयते ।
परम-नमस्या विजयते ।
भारत-माता परम-नमस्या विजयते ॥ ६॥
-- गीत-रचना : डाॅ हरेकृष्ण-मेहेरः
(``मातृगीतिकाञ्जलिः'' -काव्यतः)
Copyright Dr.Harekrishna Meher