धन्यः सह्यगिरिजातः
धन्यः सह्यगिरिजातः ।
यत्र योगिराज अनिशं न्यवसति ।
दिगम्बरः श्रीगुरुदत्तः ॥ धृ॥
विमलजलनिधे विमलोवातः ।
विमलसुरभिसुमयुतास्तहृदता ।
विहङ्गवगणो मञ्जुसुविमलम् ।
यत्र हि अद्याऽस्योद्धाकारा ॥ १॥
इह तपस्विनो गङ्गास्नानम् ।
पन्ढरियां गन्धानुलेपनम् ।
प्रीतिसङ्गमे सन्ध्या कुरुते ।
तीर्थः सह्यासरस्थितः ॥ २॥
करवीरं गच्छति भिक्षार्थम् ।
पाञ्चालेश्वरमशनस्थानम् ।
पश्चिमजलधो अर्घ्यवितरणम् ।
सह्यमञ्चके शयनस्थः ॥ ३॥
सततं सर्वत्रैव विचरति ।
ज्ञानं त्रैलोक्याय वितरति ।
दिवित्तस्थले तपः सेवते ।
अखिलः सह्यगिरि सुहरसगम ? ॥ ४॥
Encoded from audio and proofread by manish gavkar manishyg at gmail.com