धर्मधातुवागीश्वरमण्डलस्तोत्रम्

धर्मधातुवागीश्वरमण्डलस्तोत्रम्

मञ्जुश्रियं महावीरं सर्वमारविनाशनम् । सर्वसिद्धीश्वरं नाथं वागीश्वरं नमाम्यहम् ॥ १॥ मञ्जुघोषं महावीरं सर्वमारविनाशनम् । सर्वाकारप्रदातारं धर्मधातुं नमाम्यहम् ॥ २॥ महोष्णीषं सितच्छत्रं तेजोराशिं जयोदितम् । विकिरणोद्गतं चैव महोग्रतेजसं नमे ॥ ३॥ अक्षोभ्यं च महाबोधिं वज्रसत्त्वं नमाम्यहम् । वज्रराजं वज्ररागं वज्रसाधुं नमाम्यहम् ॥ ४॥ श्रीरत्नसम्भवं नाथं वज्ररत्नं नमाम्यहम् । वज्रसूर्यं वज्रकेतुं वज्रहासं नमे सदा ॥ ५॥ अमिताभं महाराजं वज्रधर्मं नमाम्यहम् । वज्रतीक्ष्णं महाकेतुं वज्रभाषं नमे नमे ॥ ६॥ अमोघसिद्धिं सिद्धेशं वज्रकर्म नमाम्यहम् । वज्ररक्षं वज्रयक्षं वज्रसन्धिं नमे सदा ॥ ७॥ लोचनाख्यां महादेवीं पाण्डराख्यां नमाम्यहम् । मामकीं चैव देवीं तां तारादेवीं नमे नमे ॥ ८॥ वज्राङ्कुशं महावीरं वज्रपाशं महत्प्रभम् । वज्रस्फोटः महानाथं वज्रावेशं नमे नमे ॥ ९॥ अधिमुक्तीश्वरीं भूमिं प्रमुदितां नमाम्यहम् । विमलाख्यां महाभूमिं प्रभाकरीं नमे नमे ॥ १०॥ अर्चिष्मतीं सुदुर्जयां चाभिमुखीं नमाम्यहम् । दूरङ्गमामचलाख्यां साधुमतीश्वरीं नमे ॥ ११॥ धर्ममेघां महामेघां समताख्यां प्रभां नमे । रत्नपारमितां देवीं दानपारमितां नमे ॥ १२॥ शीलपारमितां देवीं क्षान्तिपारमितां नमे । वीर्यपारमितां देवीं ध्यानपारमितां श्रये ॥ १३॥ प्रज्ञापारमितां देवीमुपायाख्यं नमाम्यहम् । प्रणिधानबलं चैव ज्ञानपारमितां सदा ॥ १४॥ कर्मपारमितां देवीं नमामि सततं तथा । आयुश्चित्तपरिष्कारं कर्मोपपत्तिकां नमे ॥ १५॥ ऋद्ध्याख्यामधिमुक्तिं च प्रणिधानां नमाम्यहम् । ज्ञानाख्यवशितां देवीं धर्माख्यवशितां नमे ॥ १६॥ तथतां च महादेवीं बुद्धबोधिं नमाम्यहम् । वसुमतीं महालक्ष्मीं रत्नज्वालां नमे नमे ॥ १७॥ उष्णीषविजयां देवीं मारीचीं पर्णशाबरीम् । जाङ्गुलिं धारणीं वन्दे अनन्तमुखधारणीम् ॥ १८॥ चुन्दां प्रज्ञां च पद्मां च सर्वावरणशोधनीम् । अक्षयज्ञानकारण्डं धर्मकायवतीं नमे ॥ १९॥ धर्मप्रतिविदं देवमर्थं च प्रतिसंविदम् । निरुक्तिसंविदं देवं प्रतिभानाख्यसंविदम् ॥ २०॥ वज्रलास्यां वज्रमालां वज्रगीतां नमे सदा । वज्रनृत्यां महादेवीं नमामि सततं मुदा ॥ २१॥ समन्तभद्रं बोधीशमक्षयतां मतिं नमे । क्षितिगर्भं खगर्भं च बोधिसत्त्वं नमाम्यहम् ॥ २२॥ गगणगञ्जनाथेशं रत्नपाणिं नमे नमे । सागरमतिं बोधीशं वज्रगर्भं नमाम्यहम् ॥ २३॥ लोकेश्वरं महासत्वं स्थानप्राप्तं नमाम्यहम् । चन्द्रप्रभं महातेजं वन्देऽहं जालिनीप्रभम् ॥ २४॥ अमितप्रभबोधोशं श्रीपतिं भानुकूटकम् । सर्वशोकतमोद्घाटविष्कम्भिनं नमाम्यहम् ॥ २५॥ यमान्तकं महावीरं प्रज्ञान्तकं नमे नमे । पद्मान्तकं महावीरं विघ्नान्तकं नमाम्यहम् ॥ २६॥ त्रैलोक्यविजयं वीरं वज्रज्वालां नमाम्यहम् । हेरुकं वज्रवीरेशं परमेशं नमाम्यहम् ॥ २७॥ चक्रवर्त्तीश्वरं वन्दे सुम्भराजं नमाम्यहम् । पुष्पां धूपां महादीपां गन्धां देवीं नमाम्यहम् ॥ २८॥ वज्ररूपां वज्रशब्दां रसवज्रां नमाम्यहम् । वज्रस्पर्शां महादेवीं विश्ववर्णां नमे सदा ॥ २९॥ इन्द्रयमजलेशांश्च कुबेरमीश्वरं नमः । अग्निं नैरृत्यनाथं च वायुराजं नमाम्यहम् ॥ ३०॥ ब्रह्माणं विष्णुदेवं च महेश्वरं कुमारकम् । ब्रह्माणीं च महादेवीं रुद्राणीं वैष्णवीं नमे ॥ ३१॥ कौमारीं रक्तवर्णां च महेन्द्राणीं नमाम्यहम् । वाराहीं कालिकां चण्डीं भृङ्गिणं गणनायकम् ॥ ३२॥ महाकालं महाभीमं नन्दिकेशं रविं नमे । चन्द्रं भौमं बुधं वन्दे गुरुं शुक्रं शनैश्चरम् ॥ ३३॥ राहुं केतुं बलभद्रं जयकरं नमे सदा । मधुकरं वसन्तं च अनन्तं वासुकिं नमे ॥ ३४॥ तक्षं कर्कोटकं पद्मं महापद्मं नमाम्यहम् । शङ्खपालं च कुलिकं वेमचित्रं वलिं नमे ॥ ३५॥ प्रह्लादं च महादैत्यं वैरोचनं नमे सदा । गुरुडेन्द्र सुम्भराजं पञ्चशिखं नमाम्यहम् ॥ ३६॥ सर्वार्थसिद्धिं विघ्नेशं पूर्णभद्रं नमाम्यहम् । मणिभद्रं महायक्षं धनदं च महेश्वरम् ॥ ३७॥ वैश्रवणं महावीरं चिविकुण्डलिनं नमाम्यहम् । केलिमालिं सुखेन्द्रं च चलेन्द्रं च नमाम्यहम् ॥ ३८॥ हारतीं यक्षिणीं देवीं बहुपुत्रवतीं नमे । अश्विनीं भरणीं तारां कृत्तिकां रोहणीं तथा ॥ ३९॥ मृगशीर्षां तथैवार्द्रां पुनर्वसुं नमाम्यहम् । पुष्यमाश्लेषकातारां मघां च पूर्वाफाल्गुनीम् ॥ ४०॥ उत्तराफाल्गुनीं हस्तं चित्रां स्वातिं विशाखकाम् । अनुराधां तथा ज्येष्ठां मूलतारां नमाम्यहम् ॥ ४१॥ पूर्वाषाढोत्तराषाढां श्रवणां च नमाम्यहम् । धनिष्ठां शतभिषां च पूर्वोत्तराभाद्रपदाम् ॥ ४२॥ रेवतीं च महातारामभिजितं नमाम्यहम् । वज्राङ्कुशं महावीरं वज्रपाशं नमाम्यहम् ॥ ४३॥ वज्रस्फोटं महाभीमं वज्रांशं वै नमे नमे । वागीश्वरं महाबोधिं सर्वविघ्नविनाशकम् ॥ ४४॥ सर्वज्ञं ज्ञानदातारं धर्मधातुं नमाम्यहम् । मञ्जुश्रियं महाज्ञानं सर्वविद्याप्रदेश्वरम् । सर्वाकारस्वरूपं च वादिराजं नमाम्यहम् ॥ ४५॥ इति श्री धर्मधातुवागीश्वरमण्डलस्तोत्रं सम्पूर्णम् ॥
% Text title            : Dharmadhatuvagishvaramandala Stotram
% File name             : dharmadhAtuvAgIshvaramaNDalastotram.itx
% itxtitle              : dharmadhAtuvAgIshvaramaNDalastotram
% engtitle              : dharmadhAtuvAgIshvaramaNDalastotram
% Category              : misc, buddha, stotra
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DSBC staff
% Proofread by          : Miroj Shakya
% Indexextra            : (Scan, Text 1, 2)
% Acknowledge-Permission: Prof. Miroj Shakya, Text  Nagarjuna Institute of Exact Methods, Digital Sanskrit Buddhist Canon Project, University of the West https://www.dsbcproject.org/
% Latest update         : March 8, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org