एत बालकाः दर्शयामि
एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य,
तेजो भारतवर्षस्य ।
अस्य मृत्तिका शिरसा वन्द्या, भूमिरियं बलिदानस्य ।
वन्दे मातरं, वन्दे मातरम् ॥
उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः
दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः ।
पश्यत गङ्गायमुनातीरं परं पावनं भूलोके
स्थाने स्थाने यद् दिव्यत्वं नैव सुराणामपि नाके
एकमेव तत् स्थानं चैतत् देवानामवतारस्य ॥ १॥
रजपूतानामेतत् स्थानं खडे येषां अभिमानः
धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मानः ।
अत्रैवासीत् प्रतापवीरो विश्वेऽस्मिन् यो बहुमान्यः
शीलरक्षणे भस्मीभूताः अत्रासङ्ख्याः पद्मिन्यः
रजः सुपूतं वीरपदाब्जैः स्थानं चैतद्देशस्य ॥ २॥
वङ्गोऽयं यद्धरणीहरिता मनोहारिणी सर्वत्र
निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र
रामकृष्ण-गौराङ्ग-विवेकानन्द-प्रमुखाः यत्रासन् ।
अरविन्दाद्याः क्रान्तिकारकाः शान्तिपूजकाः यत्रासन्
जन्मभूरियं ``नेताजेः'' प्रख्यातस्य सुभाषस्य ॥ ३॥
इयं दृश्यतां महाराष्ट्रभूः यत्र शिवाजी राजासीत्
यस्य भवानीकरवालेन म्लेच्छानां संहारोऽभूत्
स्थाने स्थाने पर्वतभागे सामर्थ्याग्निः प्रकटोऽभूत्
घोषो ``हर हर महादेव'' इति बाले बाले प्राविरभूत्
कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य ॥ ४॥
भक्तिमानयं दक्षिणदेशो गोदाकृष्णापरिपुष्टः
गगनस्पर्धित-शिल्पकलान्वित-गोपुरभालैर्विभूषितः ।
अत्र विद्यते सुजनस्थानं सीतापति-पदपरिपूतम् ।
अत्र शङ्कराचार्याः वन्द्याः केरलभागे सम्भूताः
विजयनगर-साम्राज्यमिहासीत् ख्यातं हिन्दूधर्मस्य ॥ ५॥
Encoded and proofread by Shubha shubhazero at gmail.com