गङ्गा पुनाति भालं रेवाकटिप्रदेशम्
गङ्गा पुनाति भालं रेवा कटिप्रदेशम् ।
वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥
काशी प्रयाग मथुरावृन्दाटवीविशालाः।
द्वारावतीसुकाञ्चीविदिशादितीर्थमालाः॥
सम्भूष्यन्ति कामं यस्य प्रशान्तवेषम् ।
वन्दे सदा स्वदेशं एतादृशंस्वदेशम् ॥ १॥
सलिलं सुधामधुरितं पवनोऽपि गन्धवाही ।
चरितं विकल्पकलितं धर्मो दयावगाही ॥
यत्प्राङ्गणं शबलितं कौतूहलैरशेषम् ।
वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥ २॥
गायन्ति यस्य देवाश्शुभगीतकानि नित्यम् ।
सर्वे भवन्तु सुखिनो यस्यैतदेव कृत्यम् ॥
अभयप्रदोपदेशाः शमयन्ति पापलेशम् ।
वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥ ३॥
अचलो नु देवताऽऽत्मा वसुधाऽपि रत्नगर्भा ।
कुलिशायते यदस्थि प्रचुरं वनी सुदर्भा ॥
केचिन्नमन्ति गिरिजां केचिच्च शालुवेशम् ।
वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥ ४॥
अद्यापि यस्य नीतिर्विस्मापयत्यनल्पम् ।
उद्घोष्य विश्वशान्तिं भावञ्च मित्रकल्पम् ॥
वन्दे ध्वजं त्रिवर्णं वन्देऽगृहीतकेशम् ।
वन्दे सदा स्वदेशं एतादृशं स्वदेशम् ॥ ५॥
-अभिराज डाॅ राजेन्द्र मिश्र