गेहे गेहे संस्कृतभाषा भवतात् पुनरपि वाणी
गेहे गेहे संस्कृतभाषा भवतात् पुनरपि वाणी ।
राष्ट्रकुलानां धर्मधराणां ज्ञानवतां कल्याणी ॥ ध्रु॥
दिव्यगीतायाः इमं सन्देशसारं श्रूयताम् ।
कर्मभोगो निश्चितः सत्कर्मणा पथि गम्यताम् ॥ १॥
दिव्यभारतवर्षमेतत् लोककल्याणे रतम् ।
धर्ममोक्षार्थाभिकामानां प्रयासे प्रेरितम् ॥ २॥
भ्रातृभावो दृष्यतामिह भारतीये जीवने ।
सन्तु सर्वे प्राणिनः सुखिनः सदा संवर्धने ॥ ३॥
हिन्दुदेशे वीरपुत्रैः पुण्यपुरूषैर्भूयताम् ।
न्याय-करूणा-प्रेम-समता-सत्कथासङ्गीयताम् ॥ ४॥
-आचार्य राधाकृष्ण मनोडी