गोकुले नन्दकिशोरः
(कृष्णगीतम्)
गोकुले नन्दकिशोरः
कायेनायं नीलवर्णाः ।
धृत्वा वसनञ्च पीतवर्णां
हृत्वा हृदयानि गोपिकानाम् ॥
धत्ते नवनीतमेकहस्ते
धृत्वा च वेणुमपरहस्ते ।
नर्तनलोलं गोपबालं
चित्ते सततं निरुपयामि ॥
आयातु.. मन्मानसं.. मामकसौभाग्यहेतो!
रोदिति मध्ये हसति चित्ते
खादति पथ्यं हरति गेहात् ।
कैतवं सर्वं विगणयन्तीं
वन्दे यशोदां यशस्विनीं ताम् ॥
आयातु.. मन्मानसं.. मामकसौभाग्यहेतो!
कण्ठे विलसति कौस्तुभं
कुण्डलं रत्नसुशोभितम् ।
नन्दकुमारकं सन्तापहं
वन्देऽहमाल्हादसन्दायकम् ॥
आयातु.. मन्मानसं.. मामकसौभाग्यहेतो!
-- मुत्तलपुरं मोहनदासः ।