ग्रामलक्ष्मी
(गीतिका) (भुजङ्गप्रयातवृत्तम्)
इयं ग्रामलक्ष्मीर्मुदं सन्तनोतु
इयं ग्रामलक्ष्मीः श्रियं सन्ददातु ।
क्वचित् पुष्पवृद्धिः क्वचित् सस्य वृद्धिः
क्वचिद् धान्यपुष्टिः श्रियं सन्तनोति ॥ इयं०॥
कृषेरुन्नतौ दत्तचित्ता समेऽपि
सदा खाद्य-योगो जलादेर्निषेकः ।
कृमीणां विनाशेन सस्यादि-वृद्धिः
मुदं कर्षकाणामजस्रं तनोति ॥ इयं०॥
अविद्याऽन्ध-ग्रस्ताः पुरा शोक-त्रस्ताः
क्षुधा रोग ग्रस्ताः मुधा दैन्य ध्वस्ताः ।
इदानीं नवैर्योजनैः सङ्गतास्ते
नव ग्राम लोकाः श्रिया संयुतास्ते ॥ इयं०॥
क्वचित् कूप-योगो नलानां नियोगः
क्वचित् कुल्यकाभिर्जलाना निषैकः ।
क्वचित् क्षारभूमिर्जलैरुर्वराऽऽस्ते
क्वचित् चक्रबन्धेन सस्याऽभिवृद्धिः ॥ इयं०॥
क्वचिद् योजना स्वास्थ्य वृद्धयर्थमिष्टा,
रुजं ग्रामजानाः क्षयं प्रापयन्ति ।
रुजा मृत्युयोगः क्षयं याति नित्यं
जनाः स्वास्थ्य-लाभेन मोदेन हृष्टाः ॥ इयं०॥
क्वचिद् दृश्यते योजना सन्ततैव
कुटीराश्रया वृत्ति-लाभार्थमेव ।
समे ग्रामजाताः धनं प्राप्य हर्षाद्
निजं क्लेशजातं मुदा विस्मरन्ति ॥ इयं०॥
क्वचित् प्रौढ शिक्षा क्वचिद् बाल शिक्षा
अविद्याऽन्धकारः हुदो नाशयन्ति ।
अयं सर्वतो ज्ञान-शिक्षा-प्रसारं
शुचः ग्रामजानाः निहन्त्यांशु घोराम् ॥ इयं०॥
पथामापणानां विकासैविवृद्धया
पशोः पालनेनाऽर्थं-वृद्धया च ग्रामाः ।
नवाऽविष्कृतैर्वीजजातैः प्रहृष्टा
कृषेरुन्नतिं वीक्ष्य मोदं भजन्ते ॥ इयं०॥
विहायान्य विश्वास-मूला प्रवृत्ती
विहायाऽऽश्रयं पारदेश्यं स्वतन्त्रा ।
जनान्दोलनेनाऽऽत्म-नैर्भैर्य-वृत्त्या
मुदं संश्रिता शोक सन्ताप-मुक्ता ॥ इयं०॥
सुखं धान्यवृद्धिर्जनानां समृद्धिः
सदा साधुभावाश्रया वृत्तिरिष्टा ।
प्रिये ग्रामलोके सुखं शान्तिमिष्टा
जनानां विकासं प्रमोदं तनोतु ॥ इयं०॥
Proofread by Mandar Mali