ग्रन्थमालिकास्तोत्रम्

ग्रन्थमालिकास्तोत्रम्

कृष्णं विद्यापतिं नत्वा पूर्णबोधादिसद्गुरून् । जयतीर्थमुनीन् नत्वा वक्ष्येशं ग्रन्थमालिकाम् ॥ १॥ नारायणेन व्यासेन प्रेरितस्तत्त्वसंविदे । ग्रन्थान् मध्वश्चकारासौ सप्तत्रिंशदमन्दधीः ॥ २॥ गीताभाष्यं विधायादौ प्रथमं तुष्टिदं हरेः । भाष्य-अणुभाष्ये चक्रेस्थ ह्यनुव्याख्यानमुत्तमम् ॥ ३॥ प्रमाणलक्षणं नाम कथालक्षण-संज्ञिकम् । उपाधिखण्डनं चक्रे मायावादस्य खण्डनम् ॥ ४॥ चक्रे प्रपञ्चमिथ्यात्वमानखण्डन मुच्चधीः । चकार तत्त्वसङ्ख्यानं साधनं विष्णुदर्शने ॥ ५॥ ग्रन्थं तत्त्वविवेक-आख्यं तत्त्वोद्योतं हरेः प्रियम् । कर्मनिर्णयनामानं ग्रन्थं न्यायार्थबृंहितम् ॥ ६॥ सुखतीर्थयतिश्चक्रे विष्णुतत्त्वनिर्णयम् । ऋग्भाष्यं च चकारासौ सर्ववेदार्थनिर्णयम् ॥ ७॥ ऐतरेयं तैत्तिरीयं बृहदारण्यक मेव च । ईशावास्यं काठकं च छान्दोग्या-अथर्वणे तथा ॥ ८॥ माण्डूक्यं नाम षट्प्रश्नं तथा तलवकारकम् । चक्रे भाष्याणि दिव्यानि दशोपनिषदां गुरुः ॥ ९॥ निर्णयं सर्वशास्त्राणां गीतातात्पर्य संज्ञकम् । संन्यायविवृतिं नाम न्यायशास्त्रनिकृन्तनम् ॥ १०॥ नरसिंहनखस्तोत्रं चक्रे यमकभारतम् । द्वादशस्तोत्रमकरोत् कृष्णामृतमहार्णवम् ॥ ११॥ तन्त्रसारं चकारासौ सदाचारस्मृतिं सुधीः । श्रीमद्भागवतस्यापि तात्पर्यं ज्ञानसाधनम् ॥ १२॥ महाभारततात्पर्यनिर्णयं संशयच्छिदम् । यतिप्रणवकल्पं च प्रणवार्थप्रकाशकम् ॥ १३॥ जयन्तीनिर्णयं चक्रे देवकीगर्भजन्मनः । कृष्णस्य कृष्णभक्तोऽयं द्वैपायनकराब्जभूः ॥ १४॥ त्रिंशत्सहस्रसङ्ख्याकं द्व्यधिकं तुष्टिदं हरेः । एतेषां पाठमात्रेण मध्वेशः प्रीयते हरिः ॥ १५॥ व्यासतीर्थयतिर्नाम मध्वग्रन्थानुकीर्तनम् । कृतवान् ज्ञानमात्रेण प्रीयते कमलापतिः ॥ १६॥ ॥ इति श्रीव्यासराजतीर्थकृतं श्रीग्रन्थमालिकास्तोत्रं सम्पूर्णम् ॥ The Grantha Malika StotraM of Sri Vyasaraja Theertha lists the 37 Works of Sri Acharya Madhwa.
% Text title            : Granthamalika Stotram
% File name             : granthamAlikAstotram.itx
% itxtitle              : granthamAlikAstotram (vyAsarAjatIrthakRitam)
% engtitle              : granthamAlikAstotram
% Category              : misc, gurudeva
% Location              : doc_z_misc_general
% Sublocation           : misc
% SubDeity              : gurudeva
% Author                : vyAsarAjatIrtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Srividya Guruprasad
% Proofread by          : Srividya Guruprasad
% Description/comments  : Lists the 37 Works of Sri Acharya Madhwa.
% Indexextra            : (Text)
% Latest update         : December 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org