हरिहरक्षेत्रमाहात्म्यम्
सर्वतीर्थस्वरूपं तत् क्षेत्रं हरिहरात्मकम् ।
प्रणम्य लिख्यते दिव्यं माहात्म्यं तस्य चाद्भुतम् ॥ १॥
समालोच्य पुराणानि श्रुत्वा जनश्रुतीस्तथा ।
प्रामाणिकं च प्रत्यक्षं यत्तदेव ब्रवीम्यहम् ॥ २॥
कलौ हरिहरक्षेत्रं मुनिभिः परिकीर्त्तितम् ।
लभ्यन्ते यत्र वस्तूनि चेप्सितानि तु कार्तिके ॥ ३॥
काशीतः प्राग्भृगुक्षेत्रं ततः पूर्वोत्तरे स्थितम् ।
विहारे शोभते तद्वै क्षेत्रं भुवि सुदुर्लभम् ॥ ४॥
गङ्गानारायणीनद्योः सङ्गमो यत्र विद्यते ।
तस्मात्क्रोशयुगेऽदूरे क्षितौ क्षेत्रं प्रतिष्ठितम् ॥ ५॥
पाटलीपुत्रपार्श्वे यत् पुरं स्वर्णपुराभिधम् ।
तत्रैतन्मेलकं दिव्यं प्रतिवर्षं भवत्युत ॥ ६॥
देवोत्थानात्समारभ्य कार्तिक्यां तु विशेषतः ।
गीताजयन्तिकं यावन्मासैकं ``मेलनं'' महत् ॥ ७॥
पुण्ये हरिहरक्षेत्रे विशाले शिवमन्दिरे ।
हरेश्वतुर्भुजस्याग्रे हरलिङ्गार्चनं भवेत् ॥ ८॥
अत एव समाख्यातं दिव्यं हरिहरात्मकम् ।
तत्स्थानं हरिहरक्षेत्रं विशालं विश्वविश्रुतम् ॥ ९॥
कार्तिके यत्र सर्वे हि ब्रह्मविष्णुशिवादयः ।
देवो देव्यश्च नद्यश्व निवसन्ति महर्षयः ॥ १०॥
सङ्गमे परमे रम्ये यक्षगन्धर्वकिन्नराः ।
स्नातुं द्रष्टुं समायान्ति मनुष्याः सार्वदेशिकाः ॥ ११॥
यत्राश्वगजगोमेषा महिषर्क्षवृकास्तथा ।
नकुलाजवराश्चापि कपिमार्जारशूकराः ॥ १२॥
श्वानोष्ट्रमूषकाः सिंहा मृगादिपशवस्तथा ।
विक्रयार्थं समायन्ति तस्मै स्थानाय वै नमः ॥ १३॥
कोककोकिलकाकाश्च केकीकादम्बकुक्कुटाः ।
कामुकी कलकण्ठाऽऽटी करेटूकलहप्रिया ॥ १४॥
कपोतकीरक्रौञ्चाश्च कुशिकोरककुक्कुभाः ।
विक्रयार्थं समायन्ति तस्मै स्थानाय वै नमः ॥ १५॥
कुन्दः कुरवकैर्नागैः कुटजैर्दाडिमैरपि ।
केतकीमल्लिकाजाती-यूथिकाराजिभिस्तथा ॥ १६॥
नारिकेलैश्च पूगैश्च चम्पकैर्जम्बुभिर्धवै ।
खूर्जराशोकबकुलैर्जम्बीरैर्वातलङ्गकैः ॥ १७॥
नारगैर्वदरीभिश्च निचुलैः केसरैरपि ।
चूतैश्च कपिचूतैश्च मधुरैराम्लकैस्तथा ॥ १८॥
पुन्नागै पनसैर्बिल्वैद्राक्षामधुसदाफलैः ।
मीताफलकपित्थादिफलैः क्रय्यैर्विराजितम् ॥ १९॥
एवं नानाविधैः पुष्पैः फलैः क्रय्यैः समन्वितम् ।
विद्यते यन्महत्क्षेत्रं तस्यै भूम्यै नमो नमः ॥ २०॥
सूक्ष्मातिसूक्ष्मरूपाणि स्थूलात्स्थूलतराणि वा ।
ऊष्णे शीतकराण्येव शीते चिष्णकराणि वै ॥ २१॥
स्वल्पमूल्यान्यमूल्यानि वस्त्राणि विविधानि च ।
विक्रयार्थं विलोक्यन्ते यत्र तस्यै नमो नमः ॥ २२॥
काचकाञ्चनताम्राणि लोहपित्तलकानि वा ।
रजतादीनि रौप्याणि ह्यष्टधातुमयानि च ॥ २३॥
पात्राणि विविधान्तेव मृण्मयान्यपि कार्तिके ।
विक्रेतुं यत्र दृश्यन्ते तद्देशाय नमो नमः ॥ २४॥
सुमहार्हाणि रत्नानि नीलपीतसितानि च ।
वैदूर्य्यमणिजातानि सन्ति यत्रैव ते नमः ॥ २५॥
एवं विधानि यावन्ति लोके लोकान्तरेऽपि वा ।
श्रूयमाणानि वस्तूनि तावन्ति सन्ति यत्र वै ॥ २६॥
तत्प्रकल्पितमूल्यैस्तु क्रयो वा विक्रयोभवेत् ।
तेषां समस्तवस्तूनां यत्र तस्मै नमो नमः ॥ २७॥
प्रासादैस्तृणगेहौर्वा पटमण्डपराजिभिः ।
कृत्रिमाऽकृत्रिमैः कुञ्जैर्विविधैः सुमनोहरैः ॥ २८॥
वेणुवंशैः समाकीर्णं कदलीखण्डमण्डितम् ।
पुण्यं हरिहरक्षेत्रं सेवितव्यं बुधैः सदा ॥ २९॥
राजानो बहवो वापि श्रेष्ठिनः साधवस्तथा ।
व्यापारिणो विराजन्ते कार्तिकोत्तमपर्वणि ॥ ३०॥
भारतीया नराश्चान्ये दूरतोऽपि विदेशिनः ।
स्नातुं द्रष्टुं च क्रेतुं वा विक्रेतुं ये समागताः ॥ ३१॥
अस्मिन् हरिहरक्षेत्रे पावने लोकभावने ।
आगत्यकार्तिके मासे स्नानं कुर्वन्ति ये जनाः ॥ ३२॥
ते निष्पापा ध्रुवं यान्ति शिवलोकं तथा पुनः ।
विष्णुलोके सुखं भुक्त्वा ब्रह्मलोकं व्रजन्ति ते ॥ ३३॥
क्रय-विक्रयसंलग्नाः स्नानध्यानपरायणाः ।
यथाकथञ्चिदपि ते यात्रिणोऽत्र तरन्ति वै ॥ ३४॥
अत एव नरैः सर्वैर्द्रष्टव्यं तदपूर्वकम् ।
क्षेत्रं हरिहराख्यं यद् विद्यते गण्डकीतटे ॥ ३५॥
श्रीगङ्गा-सरयूनदी-सुतटयोर्मध्येभृगुक्षेत्रतः ।
प्राग्गव्यूतिमिते स्थिते ᳚दुबहरे᳚ ग्रामेऽथ गर्गान्वये ॥
सञ्जातेन हि ठाकुरात्मजनुषा विज्ञ ``द्विजेन्द्रेण'' वै ।
भक्तानां हितवाञ्छया विरचितं माहात्म्यमेतद्वरम् ॥ ३६॥
नेत्रग्रहाङ्कचन्द्रेऽब्दे वैक्रमे रविवासरे ।
कार्तिकीपूर्णिमायां वै माहात्म्यं पूर्णतां गतम् ॥ ३७॥
इति श्री ``कविताकलानिधि'' पं० श्रीसरयूप्रसादशास्त्रिणा विरचितं
श्रीहरिहरक्षेत्रमाहात्म्यं सम्पूर्णम् ।
इदं हरिहरक्षेत्रं विहारप्रान्ते सारनमण्डले वर्तते ।
Encoded and proofread by Shri Abirami