हिमाचली नटी
हे देव ममलेश्वर ! हे मम कुलदेवते !
दुन्दुभि-पटह-मृदङ्गैः मुखरितमन्दिरसुन्दरम् ॥
हे देव ममलेश्वर ! हे मम कुलदेवते !
जय जय शम्भो ! जय शम्भो ! जय जय देव शिरगुलदेव !
नगाधिराजशिखरविलासिन् ! त्वं मम हृदयनिकुञ्जनिवासी ॥
सकलविकलकुलशमनपरायण ! भवभयकारणतारणवारण !
जय जय शम्भो ! जय शम्भो ! जय जय देव शिरगुलदेव !
पश्येयं सा मत्तं याति पश्येयं सा याति मत्तम् ।
नीलपीतवसनभूषा अवतंसाभ्यां रमणीया सा ॥
अवतंसाभ्यां रमणीया सा । अये ....
सभ्रूभङ्गा वक्रा दृष्टिः कुतः एति अयि मे दयिते !
पश्येयं सा मत्तं याति पश्येयं सा याति मत्तम् ॥
इयमङुली मे च्छिन्ना निशितकर्तरीभिन्ना ।
पश्यतस्तव लावण्यं सौन्दर्यश्रीसम्भारम् ।
मन्दमनोहरसञ्चारं हंसीगमनसमलास्यम् ।
दूरं नीतं मम चित्तं गिरिवरनिर्झरजलसिक्तम् ॥
इयमङुली मे च्छिन्ना निशितकर्तरीभिन्ना ।
आयाहि श्यालि ! मे प्रियालि ! मधुरसुमरसपानं कुर्वः ।
मुग्धोऽहं तव मयूरगत्या नयनमार्गणैः तीव्रं हतः ॥
दग्धोऽस्मि तव नाशाभूषया,
आयाहि श्यालि ! मे प्रियालि ! मधुरसुमरसपानं कुर्वः ।
चम्बापत्तनं नदीद्वयीपारे अहो दृश्यं कियद् रम्यम् ॥
चम्बा सरिद्द्वयीसंवीता अहो दृश्यं कियद् रम्यम् ॥
इयं पुण्या सुदिव्याभा अहो दृश्यं कियदिदं रम्यम् ॥
यमय स्वीयं हृदयबिम्बं मदीयचित्तं त्वयि अनुरक्तम् ।
त्वं हि मे प्राणाः, त्वं च मे जीवः, त्वं मनः ।
अपाङ्गलास्यं तव सविलासं, छनन छन छन नूपुररणनम् ॥
भिन्दति मदीयं मानसकुसुमं छिन्दति प्रसभं चित्तं सूत्रम् ।
यमय स्वीयं हृदयबिम्बं मदीयचित्तं त्वयि अनुरक्तम् ॥
अधरस्तव किसलयं नेत्रे ते कुवलये !
कश्मीरीया कलिः त्वं मे मोहिनि ! कश्मीरीया कलिः त्वं मे मोहिनि !
मोहिनि ! मोहिनि ! .... ंए मोहिनि !
अलिके तव बिन्दुः नयनयोः कज्जलं
भिन्दतीव मनो मे मोहिनि ! अयि मोहिनि !
मयूरीव गच्छसि मृगीव त्वं पश्यसि
शोणं तव गण्डं मोहिनि ! अयि मोहिनि !
रचयिता - सुज्ञानकुमारमाहान्तिः
राष्ट्रियसंस्कृतसंस्थानम्
वेदव्यासपरिसरः, बलाहरः, हिमाचल प्रदेश
बहुवैचित्र्यपूर्ण-कला-संस्कृति-साहित्य-ऐतिह्यादिप्रथापरम्पराः बिभ्रती रमणीया अस्माकं भारतभूमिः विश्वस्मिन् विश्वे श्रेष्ठत्वं भजते । तत्रापि नगाधिराजशिरोभूषणायमानस्य हिमाचलप्रदेशस्य अनुपमप्रकृतिसम्भारेण समृद्धं पुष्कलललितलोककलाजुष्टं वैभवं किमप्यनवद्यं हृद्यञ्च चमत्कारं पुष्णाति। तत्र च हिमाचलप्रदेशस्य प्रसिद्धं लोकगीतं नाटीति। इयं च नाटी संस्कृतभाषया हिमाचलसंस्कृतिमाधारीकृत्य रचितास्ति।