हिन्दुराष्ट्रसङ्घटकम्
हिन्दुराष्ट्रसङ्घटकं सुजनवन्दनीयं
केशवं स्मरामि सदा परमपूजनीयम् ॥
राष्ट्रमिदं हिन्दूनां खलु सनातनं
विघटनया जातं चिरदास्यभाजनं
दुःखदैन्यपीडितमिति पीडितहृदयम् ॥ १॥
भगवद्ध्वज एव राष्ट्रगुरुरयं महान्
देशोऽयं खलु देवो जगति महीयान्
बोधयन्तमिति तत्त्वं सततस्मरणीयम् ॥ २॥
वीरव्रतमेव परं धर्मनिदानं
सुशीलमेव लोकेऽस्मिन् परमनिधानं
उपदिशन्तमिति सारं दृढमाचरणीयम् ॥ ३॥
नेतुं निजराष्ट्रमिदं परमवैभवं
नयत विलयमन्तर्गतसकलभेदभावम् ।
सङ्घमन्त्रमिति जपन्तमेकमेषणीयम् ॥ ४॥
Encoded and proofread by Shubha shubhazero at gmail.com