इयं मातृभूमिः
सदा सागरैः क्षालिताः पूतपादाः,
किरीटे हिमाच्छादिताः शैलमालाः ।
क्वचित् केरले नारिकेलस्य वृक्षाः,
तटे सागरस्यासते पङ्क्तिबद्धाः ॥ १॥
सुगन्धाभिभूतान्यहो ! चन्दनानाम्,
लसन्तीह कर्नाटके काननानि ।
क्वचित् चित्रकूटं क्वचिद् विन्ध्यमाला,
सुरम्याऽस्ति कश्मीरभूमिर्विशाला ॥ २॥
इहाऽभूत्पुरा वेदशास्त्रप्रकाशः,
पुराणेतिहासै स्तदर्थोपबृंहः ।
इहाध्यात्मभावस्तथा यज्ञयोगौ,
उपक्रामितो दर्शनानां विचारः ॥ ३॥
इहैवापि काव्यं च वाल्मीकिनोक्तं,
महाभारतं दृश्यते व्यासकृत्यम् ।
इहैवास्ति भासस्तथा कालिदासः,
सुलालित्य-गन्धर्वविद्याविलासः ॥ ४॥
इयं रामचन्द्रस्य भूमिः प्रशान्ता,
तथा कृष्णचन्द्रस्य पुण्या धरित्री ।
पवित्रास्ति काशी पवित्रा त्वयोध्या,
वहत्यत्र गङ्गानदी पुण्यतोया ॥ ५॥
प्रयागे तथा सङ्गमोऽयं नदीनाम्,
सदा मानसं नः पुनीते समेषाम् ।
इहैवाऽभवद् बुद्धदेवो महात्मा,
अहिंसा-दया-जीवकारुण्यधर्मा ! ॥ ६॥
तितिक्षाप्रसारे सतस्तापसोऽत्र,
महावीरतीर्थङ्क जन्म लेभे ।
सदा शात्रवेष्वप्यहो ! वैरहीनः,
अहिंसा- प्रवीणो महात्माऽत्र गान्धी ॥ ७॥
सतामेष देशो मुनीनां धरित्री,
कवीन्द्रस्य चेयं रवीन्द्रस्य भूमिः ।
इयं ज्ञानभूमिः सुसाहित्यभूमिः,
जयेत् सर्वदा पुण्यदा कर्मभूमिः ॥ ८॥
(भुजङ्गप्रयात-वृत्तानि)
--- प्रशस्यमित्रशास्त्री