इयमस्माकं भारतमाता
जय भारतमाता नमः ।
इयमस्माकं भारतमाता सर्वजनानां समग्रभूमिः ।
भारतीयानां सुस्थिरभूमिः ।
जय जय जय जय जय भारतमाता ॥ धृ॥
वसिष्ठ-गौतम-व्यास-वाल्मीकिः
तपोनिधीनां शान्तिभूमिः ।
गङ्गा-कृष्णा-सिन्धु-कावेरी
जीवनदीनां पुण्यभूमिः ।
रुद्रमदेवी प्रतापरुद्र वीरवराणां कर्मभूमिः ॥ १॥
जय जननी भारतमाता ।
हिन्दु-मुस्लिम-ख्रैस्तवसि
सुसर्वमतानामैक्यभूमिः ।
गान्धी नेहरु तिलक पटेल सुभाष
महनीयानां जन्मभूमिः ।
सकलसम्पदां सौभाग्यानां केदाराणां काञ्चनभूमिः ।
देशभक्तिः देशसमग्रः नीतियुतानां धर्मभूमिः ॥ २॥
Encoded from audio and proofread by manish gavkar manishyg at gmail.com