जागृहि त्वं भारतीय !
जागृहि त्वं भारतीय, प्रभातं समुपस्थितं
संस्कृतज्ञ ! प्रयामश्चल !
वयंं राष्ट्रे जागृयाम, वयंं राष्ट्रे जागृयाम ॥
बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितं
शृणु श्रवणसुखप्रदं कवि-सुभाषितकलकिलकिलम् ।
पश्य विश्वहितास्पदं त्यागारुणं कलयागतं
ज्ञानभानुमुपास्महे धियो यो नः प्रेरयेत्, धियो यो नः प्रेरयेत् ॥
विसृज जाड्यं मोहजनितं, त्यजालस्यं मानसं
श्रुति-स्मृतिऋषिशङ्खनादैर्दमय मन्देहासुरान् ।
चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतं
भारतीसुप्रजःकार्यं मातृसेवनमाह्निकं , मातृसेवनमाह्निकम् ॥
मनःक्षेत्रं समं कृत्वा स्नेहलतिका रोप्यतां
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम् ।
संविभज्य ज्ञानसलिलं समैः सह सम्भुज्यतां
मुनिवचनकृतिशान्तिधृतिभिः भारतश्रीः साध्यतां, भारतश्रीः साध्यताम् ॥
- दोर्बलप्रभाकरशर्मा
Encoded and proofread by Shubha shubhazero at gmail.com