जीवाष्टकगीतम्
अहं अचिन्त्यः अमरः नित्यरूपः
अहं सत्यः सत्यांशः सत्यस्वरूपः
अहं अक्लेद्यश्च अदाह्यः अशोष्यः
अहं कृष्णदासः अहं कृष्णदासः ॥ १॥
नाहं ब्रह्मा विष्णु च रुद्रः बसोबः
नाहं आदित्यो मरुतः यक्षः देवः
नाहं बालः वृद्धश्च नारी पुरुषः
अहं कृष्णदासः अहं कृष्णदासः ॥ २॥
अहं अजन्मा अब्ययः मुक्त सत्यः
अहं कूटस्थाचल पुरुषः नित्यः
अहं कृष्णांशः कृष्णदेवस्य अंशः
अहं कृष्णदासः अहं कृष्णदासः ॥ ३॥
नाहं एतत् देहश्च ना तस्य अङ्गः
नाहं कस्य सङ्गश्च नाहं असङ्गः
नाहं पञ्चप्राणः नाहं पञ्चकोषः
अहं कृष्णदासः अहं कृष्णदासः ॥ ४॥
अहं गुणातीतः अहं कालातीतः
अहं आनन्दोशिवस्वरूपः सत्यः
अहं चिदानन्दोऽहं कृष्णस्य दासः
अहं कृष्णदासः अहं कृष्णदासः ॥ ५॥
अहं तेन सह एकत्वं सम्बन्धं
अहं तेन सह सम्बन्धं पृथकं
अहं तदभेदाभेदश्च अचिन्त्यं
अहं कृष्णदासः अहं कृष्णदासः ॥ ६॥
अहं विस्मृतवान् मम रूपो शुद्धः
अहं माया अनले देहे आपद्धः
अहं शतोशतः आशाया निबद्धः
अहं कृष्णदासः अहं कृष्णदासः ॥ ७॥
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः ॥ ८॥
रचयिता -- श्रीकृष्णदासः