जगति विजयतां सदा जयन्ती
पताका-प्रशस्तिगीतिः
जगति विजयतां सदा जयन्ती ।
त्रिविधपताका श्रियं श्रयन्ती ॥ ध्रुवपदम्॥
सूर्यसोमसीमानमयन्ती पिशुनजनाननमानमयन्ती ।
निजनिजकर्मरतान् हरिहरिणान् विगतविरोधान् सङ्गमयन्ती ॥
जगति विजयतां सदा जयन्ती ॥ १॥
एकच्छत्रं राज्यमिलायां जनितानन्द सञ्जनयन्ती ।
मर्यादां नो दैवमहिम्ना यातां तां पुनरुन्नमयन्ती ॥
जगति विजयतां सदा जयन्ती ॥ २॥
दर्शं दर्शं सुषमां स्वीयां रिपुगणमुखशोभां स्थगयन्ती ।
विश्वविचित्रा परमपवित्रा दर्शकचयनयनानि हरन्ती ॥
जगति विजयतां सदा जयन्ती ॥ ३॥
देशविदेशे जनितविशेषे लोकोत्तरमानन्नु वहन्ती ।
पराधीनतां मुदा हरन्ती स्वराज्यसुषमामुदाहरन्ती ॥
जगति विजयतां सदा जयन्ती ॥ ४॥
भारतमातुर्मस्तकशोभामुज्ज्वलयन्ती धाम दिशन्ती ।
उच्छृङ्खलतां प्रतर्जयन्ती स्वास्पदमुच्चैरुपार्जयन्ती ॥
जगति विजयतां सदा जयन्ती ॥ ५॥
रचयिता -
विद्याभास्करः श्रीपरमानन्दः शर्मा, व्याकरणशास्त्री साहित्याचार्यः
Encoded and proofread by Preeti N Bhandare