जगत् जीवः परमात्मा विचाराः
अद्वयोऽपि सदैवात्मा वृक्षे पक्षिद्वयं किमु ।
एको भुङ्क्ते फलं त्वन्योऽनश्नन् साक्षीव दर्शकः ॥ १॥
कर्ता भोक्ताऽभिमान्येष यात्यायाति पुनः पुनः ।
अमुत्रेह च देही स जीवात्मा गुणसङ्गतः ॥ २॥
परात्मा सर्वगो मुक्तो निर्गुणो निर्विकल्पकः ।
नित्योऽनन्तोऽद्वयोऽसङ्गो निर्लिप्तः सर्वतोमुखः ॥ ३॥
फलभोक्ता स जीवात्मा परात्मा साक्षिरूपकः ।
वृक्षः शरीरमेवास्ति विद्ध्येतत् सकलं जगत् ॥ ४॥
पूर्णमेतैस्त्रिभिर्विश्वं प्रकाशं याति सर्वथा ।
लीयते तत्र वै सर्वं जडचेतनसङ्कुलम् ॥ ५॥
स्थूलसूक्ष्मं च यत् किञ्चित् कारणं वा तथेतरत् ।
सर्वभूतानि जायन्ते म्रियन्ते च पुनः पुनः ॥ ६॥
अयं मर्त्यः क्षणस्थायी संसारः क्षणभङ्गुरः ।
नामरूपात्मकं सर्वं जडं चेत्युच्यते जगत् ॥ ७॥
इति श्री आचार्यदिगम्बरमहापात्रविरचिताः
जगत् जीवः परमात्मा विचाराः ।