जलम् अमूल्यम् - सम्भाषणकविता
बालः-
कोकिल कोकिल किं ते वदनं
शोकभरं तत् परिशुष्कम् ।
घोरनिदाघे तावकवदनं
जातं रूपविहीनमहो ॥
कोकिलः-
अपिबं बालक जलमल्पं मे
भारतनद्याः गतदिवसे ।
हन्त हतोऽस्मि वदनम् उदरं
नेत्रद्वयमपि परिशुष्कम् ॥
बालः-
अयि भो कष्टं जलमखिलं तत्
शुष्कं जातं विषलिप्तम् ।
कोकिलः-
कष्टं कष्टं दुष्टजनैस्त-
दखिलं दूषितमनुनिमिषम् ।
ज्ञेयं मानवकुलजैः सर्वैः
जीवजलामृतमतिमूल्यम् ॥
--- विजयन् वि. पट्टाम्बि