ब्रह्माण्डमहापुराणान्तर्गते जम्बूद्वीपवर्णनम्
सूत उवाच -
मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः ।
तस्मिन्निवसति श्रीमान्कुबेरः सह राक्षसैः ॥ १॥
अप्सरोनुचरो राजा मोदते ह्यलकाधिपः ।
कैलासपादात्सम्भूतं पुण्यं शीतजलं शुभम् ॥ २॥
मदं नाम्ना कुमुद्वत्तत्सरस्तूदधिसन्निभम् ।
तस्माद्दिव्यात्प्रभवति नदी मन्दाकिनी शुभा ॥ ३॥
दिव्यं च नन्दनवनं तस्यास्तीरे महद्वनम् ।
प्रागुत्तरेण कैलासाद्दिव्यं सर्वौषधिं गिरिम् ॥ ४॥
रत्नधातुमयं चित्रं सबलं पर्वतं प्रति ।
चन्द्रप्रभो नाम गिरिः सुशुभ्रो रत्नसन्निभः ॥ ५॥
तस्य पादे महद्दिव्यं स्वच्छोदं नाम तत्सरः ।
तस्माद्दिव्यात्प्रभवति स्वच्छोदा नाम निम्नगा ॥ ६॥
तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं शुभम् ।
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः ॥ ७॥
यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः
पुण्या मन्दाकिनी चैव नदी स्वच्छोदका च या ॥ ८॥
महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ।
कैलासाद्दक्षिणे प्राच्यां शिवसत्त्वौषधिं गिरिम् ॥ ९॥
मनः शिलामयं दिव्यं चित्राङ्गं पर्वतं प्रति ।
लोहितो हेमशृङ्गश्च गिरिः सूर्यप्रभो महान् ॥ १०॥
तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ।
तस्मात्पुण्यः प्रभवति लौहित्यः स नदो महान् ॥ ११॥
देवारण्यं विशोकं च तस्य तीरे महद्वनम् ।
तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी ॥ १२॥
सौम्यैः सुधार्मिकैश्चैव गुह्यके परिवारितः ।
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधिर्गिरिः ॥ १३॥
वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति ।
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः ॥ १४॥
तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् ।
तस्मात्प्रभवते पुण्या सरयूर्लोकविश्रुता ॥ १५॥
तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ।
कुबेरानुचरस्तत्र प्रहेतितनयो वशी ॥ १६॥
ब्रह्मपितो निवसति राक्षसोऽनन्तविक्रमः ।
अन्तरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ॥ १७॥
अपरेण तु कैलासात्पुण्यसत्त्वौषधिर्गिरिः ।
अरुणः पर्वतश्रेष्ठो रुक्मधातुमयः शुभः ॥ १८॥
भवस्य दयितः श्रीमान्पर्वतो मेघसन्निभः ।
शतकौम्भमयैः शुभ्रैः शिलाजालैः समावृतः ॥ १९॥
शातसङ्ख्यैस्तापनीयैः शृङ्गैर्दिवमिवोल्लिखन् ।
मुञ्जवांस्तु महादिव्यो दुर्गः शैलो हिमाञ्चितः ॥ २०॥
तस्मिन्गिरौ निवसति गिरीशो धूम्रलोचनः ।
तस्य पादात्प्रभवति शैलोदं नाम तत्सरः ॥ २१॥
तस्मात्प्रभवते पुण्या शिलोदा नाम निम्नगा ।
सा चक्षुः सीतयोर्मध्ये प्रविष्टा लवणोदधिम् ॥ २२॥
तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै ।
सव्योत्तरेण कैलासाच्छिवः सत्त्वौषधिर्गिरिः ॥ २३॥
गौरं नाम गिरिश्रेष्ठं हरितालमयं प्रति ।
हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः ॥ २४॥
तस्य पादे महद्दिव्यं शुभं काञ्चनवालुकं
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ २५॥
गङ्गानिमित्तं राजर्षिरुवास बहुलाः समाः ।
दिवं यास्यन्ति ते पुर्वे गङ्गातोयपरिप्लुताः ॥ २६॥
मदीया इति निश्चित्य समाहितमनाः शिवे ।
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता ।
सोमपादात्प्रसूता सा सप्तधा प्रतिपद्यते ॥ २७॥
यूपा मणिमयास्तत्र वितताश्च हिरण्मयाः ।
तत्रेष्ट्वा तु गतः सिद्धिं शक्रः सर्वैः सुरैः सह ॥ २८॥
दिवि च्छायापथो यस्तु अनुनक्षत्रमण्डलः ।
दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ॥ २९॥
अन्तरिक्षं दिवं चैव भावयन्ती सुरापगा ।
भवोत्तमाङ्गे पतिता संरुद्धा योगमायया ॥ ३०॥
तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिता भुवि ।
कृतं तु तैर्बिन्दुसरस्ततो बिन्दुसरः स्मृतम् ॥ ३१॥
ततो निरुद्धा सा देवी भवेन स्मयता किल ।
चिन्तयामास मनसा शङ्करक्षेपणं प्रति ॥ ३२॥
भित्त्वा विशामि पातालं स्रोतसागृह्य शङ्करम् ।
ज्ञात्वा तस्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम् ॥ ३३॥
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् ।
तस्यावलेपं ज्ञात्वा तु नद्याःक्रुद्धस्तु शङ्करः ॥ ३४॥
न्यरुणाच्च शिरस्येनां वेगेन पततीं भुवि ।
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः ॥ ३५॥
धमनीसन्ततं क्षीणं क्षुधया व्याकुलेन्द्रियम् ।
अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव तु ॥ ३६॥
बुद्धाऽस्य वरदानं च कोपं नियतवांस्तु सः ।
ब्रह्मणो वचनं श्रुत्वा धारय स्वर्णदीमिति ॥ ३७॥
ततो विसर्जयामास संरुद्धां स्वेन तेजसा ।
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ॥ ३८॥
ततो विसृज्यमानायाः स्रोतस्तत्सप्तधा गतम् ।
तिस्रः प्राचीभिमुखं प्रतीचीं तिस्र एव तु ॥ ३९॥
नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा ।
नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगाः ॥ ४०॥
सीता चक्षुश्च सिन्धुश्च प्रतीचीं दिशमास्थिताः ।
सप्तमी त्वन्वगात्तासां दक्षिणेन भगीरथम् ॥ ४१॥
तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् ।
सप्तैता भावयन्तीदं हिमाह्वं वर्षमेव तु ॥ ४२॥
प्रसूताः सप्त नद्यस्ताः शुभा बिन्दुसरोद्भवाः ।
नानादेशान्प्लावयन्त्यो म्लेच्छप्रायांस्तु सर्वशः ॥ ४३॥
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ।
शिलीन्ध्रान्कुन्तलांश्चीनान्बर्बरान्यवनान्ध्रकान् ॥ ४४॥
पुष्करांश्च कुलिन्दांश्च अञ्चोलद्विचराश्च ये ।
कृत्वा त्रिधा सिंहवन्तं सीताऽगात्पश्चिमोदधिम् ॥ ४५॥
अथ चीनमरूंश्चैव तालांश्च मसमूलिकान् ।
भद्रा स्तुंषाराँल्लाम्याकान्बाह्लवान्पारटान्खशान् ॥ ४६॥
एताञ्जनपदांश्चक्षुः प्लावयन्ती गतोदधिम् ।
दरदांश्च सकाश्मीरान् गान्धरान् रौरसान् कुहान् ॥ ४७॥
शिवशैलानिन्द्रपदान्वसतीश्च विसर्जमान् ।
सैन्धवाव्रन्ध्रकरकाञ्छमठाभीररोहकान् ॥ ४८॥
शुनामुखांश्चोर्द्ध्वमरून्सिन्धुरेतान्निषेवते ।
गन्धर्वकिन्नरान्यक्षान्रक्षोविद्याधरोरगान् ॥ ४९॥
कलापग्रामकांश्चैव पारदांस्तद्गणान् खशान् ।
किरातांश्च पुलिन्दांश्च कुरून् सभरतानपि ॥ ५०॥
पञ्चालान्काशिमत्स्यांश्च मगधाङ्गांस्तथैव च ।
सुह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च ॥ ५१॥
एताञ्जनपदान्मान्यान्गङ्गा भावयते शुभान् ।
ततः प्रतिहता विन्ध्यात्प्रविष्टा लवणोदधिम् ॥ ५२॥
ततश्च ह्लादिनी पुण्या प्राचीमभिमुखा ययौ ।
प्लावयन्त्युपभागांश्च नैषधांश्च त्रिगर्तकान् ॥ ५३॥
धीवरानृषिकांश्चैव तथा नीलमुखानपि ।
केकरानौष्टकर्णांश्च किरातानपि चैव हि ॥ ५४॥
कालोदरान्विवर्णांश्च कुमारान्स्वर्णभूमिकान् ।
आमण्डलं समुद्रस्य तिरोभूतांश्च पूर्वतः ॥ ५५॥
ततस्तु पावनी चापि प्राचीमेव दिशं ययौ ।
सुपथान्प्लावयन्तीह त्विन्द्रद्युम्नसरोपि च ॥ ५६॥
तथा खरपथांश्चैव वेत्रशङ्कुपथानपि ।
मध्यतोजानकिमथो कुथप्रावरणान्ययौ ॥ ५७॥
इन्द्रद्वीपसमुद्रं तु प्रविष्टां लवणोदधिम् ।
ततस्तु नलिनी प्रायात् प्राचीमाशां जवेन तु ॥ ५८॥
तोमरान्भावयन्तीह हंसमार्गान्सहैहयान् ।
पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधागिरीन् ॥ ५९॥
कर्णप्रावरणान्प्राप्य सङ्गत्या श्वमुखानपि ।
सिकतापर्वतमरुं गत्वा विद्याधरान्ययौ ॥ ६०॥
नगमण्डलमध्येन प्रविष्टा लवणोदधिम् ।
तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः ॥ ६१॥
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ।
वस्वौकसायास्तीरे तु वनं सुरभि विश्रुतम् ॥ ६२॥
हिरण्यशृङ्गे वसति विद्वान्कौबेरको वशी ।
यज्ञोपेतश्च सुमहानमितौजाः सुविक्रमः ॥ ६३॥
तत्रत्यैस्तैः परिवृतो विद्वद्भिर्ब्रह्मराक्षसैः ।
कुबेरानुचरा ह्येते चत्वारस्तु समाः स्मृताः ॥ ६४॥
एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम् ।
परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ॥ ६५॥
हेमकूटस्य पृष्ठे तु वर्चोवन्नामतः सरः ।
मनस्विनी प्रभवति तस्माज्ज्योतिष्मती च या ॥ ६६॥
अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ॥ ६७॥
तस्माद्द्वयं प्रभवति गान्धर्वी नाकुली च तैः ।
मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्र प्रभो महान् ॥ ६८॥
तत्र जम्बूनदी पुण्या यस्या जाम्बूनदं स्मृतम् ।
पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत् ॥ ६९॥
पुण्डरीका पयोदा य तस्मान्नद्यौ विनिर्गते ।
श्वेतात्प्रवर्त्तते पुण्यं सरयूर्मानसाद्ध्रुवम् ॥ ७०॥
ज्योत्स्ना च मृगकामा च तस्माद्द्वे सम्बभूवतुः ।
सरः कुरुषु विख्यातं पद्ममीनद्विजाकुलम् ॥ ७१॥
रुद्र कान्तमिति ख्यातं निर्मितं तद्भवेन तु ।
अन्ये चाप्यत्र विख्याताः पद्ममीनद्विजाकुलाः ॥ ७२॥
नाम्ना ह्रदा जया नाम द्वादशोदधिसन्निभाः ।
तेभ्यः शान्ता च माध्वी च द्वे नद्यौ सम्बभूवतुः ॥ ७३॥
यानि किम्पुरुषाद्यानि तेषु देवो न वर्षति ।
उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः ॥ ७४॥
ऋषभो दुन्दुभिश्चैव धूम्रश्च सुमहागिरिः ।
पूर्वायता महापर्वा निमग्ना लवणाम्भसि ॥ ७५॥
चन्द्रः काकस्तथा द्रोणः सुमहान्तः शिलोच्चयाः ।
उदग्याता उदीच्यान्ता अवगाढा महोदधिम् ॥ ७६॥
सोमकश्च वराहश्च नारदश्च महीधरः ।
प्रतीच्यामायतास्ते वै प्रविष्टा लवणोदधिम् ॥ ७७॥
चक्रो बलाहकश्चैव मैनाको यश्च पर्वतः ।
आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ॥ ७८॥
चक्रमैनाकयोर्मध्ये विदिशं दक्षिणां प्रति ।
तत्र संवर्त्तको नाम सोऽग्निः पिबति तज्जलम् ॥ ७९॥
नाम्ना समुद्रवासस्तु और्वःस वडवामुखः ।
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम् ॥ ८०॥
महेन्द्र भयवित्रस्ताः पक्षच्छेदभयात्पुरा ।
यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति ॥ ८१॥
भारतस्य तु वर्षस्य भेदास्ते नव कीर्त्तिताः ।
इहोदितस्य दृश्यन्ते यथान्येऽन्यत्र चोदिते ॥ ८२॥
उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः ।
आरोग्यायुः प्रमाणानां धर्मतः कामतोऽर्थतः ॥ ८३॥
समन्वितानि भूतानि पुण्यैरेतैस्तु भागशः ।
वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै ।
इत्येषा धारयन्तीदं पृथ्वी विश्वं जगत्स्थितम् ॥ ८४॥
॥ इति ब्रह्माण्डमहापुराणे जम्बूद्वीपवर्णनम् ॥
॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः - २।
अध्यायः १८ - जम्बूद्वीपवर्णनम् ॥
.. brahmANDamahApurANam . vAyuproktaM pUrvabhAgaH . anuSha~NgapAdaH - 2.
adhyAyaH 18 - jambUdvIpavarNanam ..
Notes:
Brahmāṇḍa Mahā-Purāṇa ब्रह्माण्ड महापुराण ; in this chapter has the description about the continent Jambūdvīpa जम्बूद्वीप that has Bhāratavarṣa भारतवर्ष as one of it’s subcontinent. Mount Kailāsa कैलास शैल is described along with the story that involves śiva शिव, Bhagīratha भगीरथ and manifestation of River Gaṅgā गङ्गा.
Encoded and proofread by Ruma Dewan