ब्रह्मपुराणान्तर्गते जम्बूद्वीपवर्णनं
लोमहर्षण उवाच -
उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ १॥
नवयोजनसाहस्रो विस्तारश्च मुनीश्वराः ।
कर्मभूमिरियं स्वर्गमपवर्गे च इच्छताम् ॥ २॥
महेन्द्रो मलयः संह्यः शुक्तिमानृक्षपर्वतः ।
विन्ध्यश्च पारियात्रश्च सप्तात्र कुल पर्वताः ॥ ३॥
अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात्प्रयाति वै ।
तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥ ४॥
इतः स्वर्गश्च मोक्षश्च मध्यं चान्ते च गच्छति ।
न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ ५॥
भारतस्यास्य वर्षस्य नव भेदान्निशामय ।
इन्द्रद्वीपः कसेरुमांस्ताम्रपर्णो गर्भस्तिमान् ॥ ६॥
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ ७॥
योजनानां सहस्रं च द्वीपोऽयं दक्षिणोत्तरात् ।
पूर्वे किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ ८॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ।
इज्यायुद्धवाणिज्याद्यै वृत्तिमन्तो व्यवस्थिताः ॥ ९॥
शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः ॥
वेदस्मृतिमुखाश्चान्याः पारियात्रोद्भवा मुने ॥ १०॥
नर्मदासुरसाद्याश्च नद्यो विन्ध्यविनिःसृताः ।
तापीपयोष्णीनिर्विन्ध्याकावेरीप्रमुखा नदीः ॥ ११॥
ऋक्षपादोद्भवा ह्येताः श्रुताः पापं हरन्ति याः ।
गोदावरीभीमरथीकृष्णवेण्यादिकास्तथा ॥ १२॥
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ।
कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ॥ १३॥
त्रिसान्ध्यऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ १४॥
आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः ।
तास्विमे कुरुपञ्चालमध्यदेशादयो जनाः ॥ १५॥
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ।
पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ॥ १६॥
तथा परान्त्याः सौराष्ट्राः शूद्राभीरास्तथाऽर्बुदाः ।
मारुका मालवाश्चैव पारियात्रनिवासिनः ॥ १७॥
सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः ।
मद्वारामास्तथाऽम्बष्ठाः पारसीकादयस्तथा ॥ १८॥
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।
समोपेता महाभागा हृष्टपुष्टजनाकुलाः ॥ १९॥
चत्वारि भारते वर्षे युगान्यत्र महामुने ।
कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ २०॥
तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ।
दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ २१॥
पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।
यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ २२॥
अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने ।
यतो हि कर्मभूरेषा अतोऽन्या भोगभूमयः ॥ २३॥
अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ २४॥
गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे ।
स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषा मनुष्याः ॥ २५॥
कर्माण्य सङ्कल्पिततत्फलानि संन्यस्य विष्णौ परमात्मरूपे ।
अवाप्य तां कर्ममहीमनन्ते तस्मिल्लँयं ये त्वमलाः प्रयान्ति ॥ २६॥
जानी नैतत्कुवयं (?) विलीने स्वर्गप्रदे कर्मणि देहबन्धम् ।
प्राप्स्यन्ति धन्याः खलु ते मनुष्या ये भारतेनेन्द्रियविहीनाः ॥ २७॥
नववर्षे च भो विप्रा जम्बूद्वीपमिदं मया ।
लक्षयोजनविस्तारं सङ्क्षेपात्कथितं द्विजाः ॥ २८॥
जम्बूद्वीप समावृत्य लक्षयोजनविस्तरः ।
भो द्विजा वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ २९॥
॥ इति ब्रह्मपुराणे जम्बूद्वीपवर्णनम् ॥
॥ ब्रह्मपुराणम् । भुवनकोशे जम्बूद्वीपवर्णनम् ॥
(भारतवर्षप्रमाणं , तदन्तर्गतभेदवर्णनं ,
नद्युपनद्युत्पत्तिनिरूपणं , जम्बूद्वीपप्राशस्त्यवर्णनञ्च)
.. brahmapurANam . bhuvanakoshe jambUdvIpavarNanam ..
(bhAratavarShapramANaM , tadantargatabhedavarNanaM ,
nadyupanadyutpattinirUpaNaM , jambUdvIpaprAshastyavarNanancha)
Notes:
Brahma Purāṇa ब्रह्म पुराण; in this chapter has the description about the continent Jambūdvīpa जम्बूद्वीप that has Bhāratavarṣa भारतवर्ष as one of it’s subcontinent that is constituted of Nine Parts viz. Indradvīpa इन्द्रद्वीप, Kaśerumān कशेरुमान्, Tāmraparṇa ताम्रपर्ण, Gabhasti गभस्ति, Saumya सौम्य, Gāndharva गान्धर्व, Varuṇa वरुण, Nāga नाग, and Bhārata भारत. Seven Principal Mountain Ranges, i.e. Kulaparvata कुलपर्वत include: Mahendra महेन्द्र, Malaya मलय, Sahya सह्य, Śuktimata शुक्तिमत, Ṛkṣa ऋक्ष, Vindhya विन्ध्य, Pāriyātra पारियात्र.
The chapter numbering in the referenced publications varies.
Encoded and proofread by Ruma Dewan