ब्रह्माण्डमहापुराणान्तर्गते जम्बूद्वीपे नववर्षवर्णनम्
सूत उवाच -
एवं प्रजासन्निवेशं श्रुत्वा वै शांशपायनिः ।
पप्रच्छ नियतं सूतं पृथिव्युदधिविस्तरम् ॥ १॥
कति द्वीपा समुद्रा वा पर्वता वा कति स्मृताः ।
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥ २॥
महाभूतप्रमाणं च लोकालोकं तथैव च ।
पर्यायं परिमाणं च गतिं चन्द्रार्कयोस्तथा ।
एतत्प्रब्रूहि नः सर्वं विस्तरेण यथार्थतः ॥ ३॥
हन्त वोऽहं प्रवक्ष्यामि पृथिव्यायामविस्तरम् ॥ ४॥
सङ्ख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् ।
द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च ॥ ५॥
न शक्यन्ते क्रमेणेह वक्तुं यैः सततं जगत् ।
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह ॥ ६॥
तेषां मनुष्यास्तर्क्केण प्रमाणानि प्रचक्षते ।
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ॥ ७॥
प्रकृतिभ्यः परं यच्च तदचिन्त्यं प्रचक्षते ।
नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् ॥ ८॥
विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ।
शतमेकं सहस्राणां योजनाग्रात्समन्ततः ॥ ९॥
नानाजनपदाकीर्णः पुरैश्च विविधैश्शुभैः ।
सिद्धचारणसङ्कीणः पर्वतैरुपशोभितः ॥ १०॥
सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः ।
पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः ॥ ११॥
जम्बूद्वीपः पृथुः श्रीमान् सर्वतः पृथुमण्डलः ।
नवभिश्चावृतः सर्वो भुवनैर्भूतभावनैः ॥ १२॥
लवणेन समुद्रेण सर्वतः परिवारितः ।
जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः ॥ १३॥
प्रागायताः सुपर्वाणः षडिमे वर्षपर्वताः ।
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ १४॥
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ।
सर्वर्त्तुषु सुखश्चापि निषधः पर्वतो महान् ॥ १५॥
चतुर्वर्णश्च सौवर्णो मेरुश्चारुतमः स्मृतः ।
द्वात्रिंशच्च सहस्राणि विस्तीर्णः स च मूर्द्धनि ॥ १६॥
वृत्ताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ।
नानावर्णास्तु पार्श्वेषु प्रजापतिगुणान्वितः ॥ १७॥
नाभिबन्धनसम्भूतो ब्रह्मणोऽव्यक्तजन्मनः ।
पूर्वतः श्वेतवर्णश्च ब्राह्मणस्तस्य तेन तत् ॥ १८॥
पार्श्वमुत्तरतस्तस्य रक्तवर्णः स्वभावतः ।
तेनास्य क्षत्त्रभावस्तु मेरोर्नानार्थकारणात् ॥ १९॥
पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ।
भृङ्गपत्रनिभश्चापि पश्चिमेन समाचितः ॥ २०॥
तेनास्य शूद्रभावः स्यादिति वर्णाः प्रकीर्त्तिताः ।
वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ २१॥
नीलश्च वैदूर्यमयः श्वेतः शुक्लो हिरण्मयः ।
मयूरबर्हवर्णस्तु शातकौम्भश्च शृङ्गवान् ॥ २२॥
एते पर्वतराजानः सिद्धचारणसेविताः ।
तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ २३॥
मध्ये त्विलावृतं नाम महामेरोः समन्तमः ।
नवैवं तु सहस्राणि विस्तीर्णं सर्वतस्तु तत् ॥ २४॥
मध्ये तस्य महामेरुर्विधूम इव पावकः ।
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ॥ २५॥
वर्षाणि यानि षट् चैव तेषां ये वर्षपर्वताः ।
द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात् ॥ २६॥
जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते ।
योजनानां सहस्राणि शतं द्वावायतौ गिरी ॥ २७॥
नीलश्च निषधश्चैव ताभ्यां हीनास्तु ये परे ।
श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांस्तथा ॥ २८॥
नवती द्वे अशीती द्वे सहस्राण्यायतास्तु तैः ।
तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥ २९॥
प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु ।
सन्ततानि नदीभेदैरगम्यानि परस्परम् ॥ ३०॥
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ।
इदं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥ ३१॥
हेमकूटं परं ह्यस्मान्नाम्ना किम्पुरुषं स्मृतम् ।
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते ॥ ३२॥
हरिवर्षात्परं चापि मेरोश्च तदिलावृतम् ।
इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् ॥ ३३॥
रम्यकात्परतः श्वेतं विश्रुतं तद्धिरण्मयम् ।
हिरण्मयात्परं चैव शृङ्गवत्तः कुरु स्मृतम् ॥ ३४॥
धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे ।
दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ॥ ३५॥
अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम् ।
परं नीलवतो यच्च वेद्यर्द्धं तु तदुत्तरम् ॥ ३६॥
वेद्यर्द्धे दक्षिणे त्रीणि त्रीणि वर्षाणि चोत्तरे ।
तयोर्मध्ये तु विज्ञेयो मेरुर्मध्य इलावृतम् ॥ ३७॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
उदगायतो महाशैलो माल्यवान्नाम नामतः ॥ ३८॥
योजनानां सहस्रं तु आनील निषधायतः ।
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥ ३९॥
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः ।
आयामतोऽथ विस्तारान्माल्यवा निति विश्रुतः ॥ ४०॥
परिमण्डलयोर्मेरुर्मध्ये कनकपर्वतः ।
चतुर्वणः स सौवर्णः चतुरस्रः समुच्छ्रितः ॥ ४१॥
सुमेरुः शुशुभे शुभ्रो राजवत्समधिष्ठितः ।
तरुणादित्यवर्णाभो विधूम इव पावकः ॥ ४२॥
योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः ।
प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु ॥ ४३॥
शरावसंस्थितत्वात्तु द्वात्रिंशन्मूर्ध्निविस्तृतः ।
विस्तारात्त्रिगुणस्तस्य परिणाहः समन्ततः ॥ ४४॥
मण्डलेन प्रमाणेन त्र्यस्रे मानं तदिष्यते ।
चत्वारिंशत्सहस्राणि योजनानां समन्ततः ॥ ४५॥
अष्टाभिरधिकानि स्युस्त्र्यस्रे मानं प्रकीर्त्तितम् ।
चतुरस्रेण मानेन परिणाहः समन्ततः ॥ ४६॥
चतुःषष्टिसहस्राणि योजनानां विधीयते ।
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ॥ ४७॥
भुवनैरावृतः सर्वो जातरूपमयैः शुभैः ।
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः ॥ ४८॥
शैलराजे प्रदृश्यन्ते शुभाश्चाप्सरसां गणाः ।
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः ॥ ४९॥
चत्वारो यस्य देशा वै चतुःपार्श्वेष्वधिष्ठिताः ।
भद्राश्वा भरताश्चैव केतुमालाश्च पश्चिमाः ॥ ५०॥
उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ।
गन्धमादनपार्श्वे तु परैषाऽपरगण्डिका ॥ ५१॥
सर्वर्त्तुरमणीया च नित्यं प्रमुदिता शिवा ।
द्वात्रिंशत्तु सहस्राणि योजनैः पूर्वपश्चिमात् ॥ ५२॥
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः ।
तत्र ते शुभकर्माणः केतुमालाः प्रतिष्ठिताः ॥ ५३॥
तत्र काला नराः सर्वे महासत्त्वा महाबलाः ।
स्त्रियश्चोत्पलपत्राभाः सर्वास्ताः प्रियदर्शनाः ॥ ५४॥
तत्र दिव्यो महावृक्षः पनसः षड्रसाश्रयः ।
ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः ॥ ५५॥
तस्य पीत्वा फलरसं जीवन्ति च समायुतम् ।
पार्श्वे माल्यवतश्चापि पूर्वेऽपूर्वा तु गण्डिका ॥ ५६॥
आयामादथ विस्ताराद्यथैषापरगण्डिका ।
भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः ॥ ५७॥
भद्र शालवनं चात्र कालाम्रस्तु महाद्रुमः ।
तत्र ते पुरुषाः श्वेता महोत्साहा बलान्विताः ॥ ५८॥
स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ।
चन्द्र प्रभाश्चन्द्र वर्णाः पूर्णचन्द्र निभाननाः ॥ ५९॥
चन्द्रशीतलगात्र्यस्ताः स्त्रिय उत्पलगन्धिकाः ।
दशवर्षसहस्राणि तेषामायुरनामयम् ॥ ६०॥
कालाम्रस्य रसं पीत्वा सर्वे च स्थिरयौवनाः ।
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च ॥ ६१॥
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ।
रतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ॥ ६२॥
शुक्लाऽभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः ।
तत्रापि सुमहान्वृक्षो न्यग्रोधो रोहितो महान् ॥ ६३॥
तस्यापि ते फलरसं पिबन्तो वर्त्तयन्ति वै ।
दशवर्षसहस्राणि शतानि दश पञ्च च ॥ ६४॥
जीवन्ति ते महाभागाः सदात्दृष्टा नरोत्तमाः ।
दक्षिणे वै शृङ्गवतः श्वेतस्याप्युत्तरेण च ॥ ६५॥
वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ।
महाबलाः सुतेजस्का जायन्ते तत्र मानवाः ॥ ६६॥
यक्षा वीरा महासत्त्वा धनिनः प्रियदर्शनाः ।
एकादशसहस्राणि वर्षाणां ते महौजसः ॥ ६७॥
आयुः प्रमाणं जीवन्ति शतानि दश पञ्च च ।
यस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः ॥ ६८॥
तस्य पीत्वा फलरसं ते जीवन्ति निरामयाः ।
त्रीणि शृङ्गवतः शृङ्गाण्युच्छ्रितानि महान्ति च ॥ ६९॥
एकं मणिमयं तेषामेकं चैव हिरण्मयम् ।
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ ७०॥
उत्तरे वै शृङ्गवतः समुद्रस्य च दक्षिणे ।
कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ॥ ७१॥
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ ७२॥
सर्वकामप्रदास्तत्र केचिद्वृक्षा मनोरमाः ।
गन्धवर्णरसो पेतं प्रक्षरन्ति मधूत्तमम् ॥ ७३॥
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ।
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ॥ ७४॥
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।
सर्वर्तुसुखसम्पन्ना न्निष्पङ्का नीरजा शुभा ॥ ७५॥
देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः ।
शुक्लाभिजनसम्पन्नाः सर्वे च स्थिरयौवनाः ॥ ७६॥
मिथुनानि प्रसूयन्ते स्त्रियश्चाप्सरसः समाः ।
तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम् ॥ ७७॥
मिथुनं जायते सद्यः समं चैव विवर्द्धते ।
समं शीलं च रूपं च प्रियता चैव तत्समा ॥ ७८॥
अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः ।
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ ७९॥
त्रयोदशसहस्राणि शतानि दश पञ्च च ।
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ ८०॥
॥ इति ब्रह्माण्डमहापुराणे जम्बूद्वीपे नववर्षवर्णनम् ॥
॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः - २।
अध्यायः १५ - पृथिव्यायामविस्तरः ॥
Notes:
.. brahmANDamahApurANam . vAyuproktaM pUrvabhAgaH . anuSha~NgapAdaH - 2.
adhyAyaH 15 - pRRithivyAyAmavistaraH ..
Brahmāṇḍa Mahā-Purāṇa ब्रह्माण्ड महापुराण ; in this chapter has the description about the spread of the nine Varṣa वर्ष (parts of Land separated by Mountain Ranges, akin to subcontinents) viz; Il̤āvṛtavarṣa इळावृतवर्ष, Ramyakavarṣa रम्यकवर्ष / Ramaṇakavarṣa रमणकवर्ष, Hairaṇyavatvarṣa हैरण्यवत्वर्ष / Hiraṇmayavarṣa हिरण्मयवर्ष, Kuruvarṣa कुरुवर्ष, Harivarṣa हरिवर्ष, Kimpuruṣavarṣa किम्पुरुषवर्ष, Bhadrāśvavarṣa भद्राश्ववर्ष, Ketumālā केतुमाला, and Bhāratavarṣa भारतवर्ष (Haimavatavarṣa हैमवतवर्ष / Himavatavarṣa हिमवतवर्ष) - that together constitute Jambūdvīpa जम्बूद्वीप - one of the seven dvīpa सप्तद्वीप (akin to continents). The main Mountain Ranges demarcating these lands are known as the Varṣa-Parvata वर्षपर्वत; and these include - Nīla नील, Śveta श्वेत, Śṛṅgavān शृङ्गवान्, Niṣadha निषध, Hemakūṭa हेमकूट, and Himavān हिमवान् (Himālaya हिमालय). Mount Meru मेरुपर्वत is central to all of the above lands and mountain ranges; and, is surrounded by four main deśa देशः Bhadrāśva भद्राश्व towards East, Bhārata भारत in the South, Ketumālā केतुमाला in the West, Kuru कुरु in North.
Encoded and proofread by Ruma Dewan