सुदिनं सुदिनं जन्मदिनम्
सुदिनं सुदिनं जन्मदिनं तव ।
भवतु मङ्गलं जन्मदिनम् ॥
चिरञ्जीव कुरु कीर्तिवर्धनम् ।
चिरञ्जीव कुरु पुण्यवर्धनम् ॥
विजयी भव सर्वत्र सर्वदा ।
जगती भवतु तव सुयशगानम् ॥
सुदिनं सुदिनं जन्मदिनं तव ।
भवतु मङ्गलं जन्मदिनम् ॥
जीवेत् शरदः शतं शतम् ॥