जन्मदिवसपञ्चकम्
॥ श्रीश्रीराधादामोदरौ जयतः ॥
(तोटकं वृत्तम्)
सुदिनं सुदिनं तव जन्मदिनं यदुपस्थितमद्य सुचारुतमम् ।
अयि वैष्णव नस्तदतीव हरिप्रणयर्द्धिनिदानमिदं भवतु ॥ १॥
गुरुवैष्णवविप्रकुलेष्टसुराः पितरश्च चराचरजीवगणाः ।
मुदिताः सकलाश्च भवन्तु सदा शुभजन्मदिनं सफलं भवतु ॥ २॥
बलिरामविभीषणसात्यवतहनुमत्कृपविप्रमृकण्डुसुताः ।
ददतु स्वकजीवितकाललवं शुभजन्मदिनं सफलं भवतु ॥ ३॥
हरिनामरुचिर्हरिधामरुचिर्हरिकर्मरुचिश्च भवन्तु सदा ।
न भवेज्जडजन्म कदापि च नः शुभजन्मदिनं सफलं भवतु ॥ ४॥
अवधूत गदाधर गौर हरे वृषभानुसुते गिरिराज सखे ।
गुरुवर्ग कृपां कुरुताद्य मुदा शुभजन्मदिनं सफलं भवतु ॥ ५॥
इति श्रीहरिपार्षददासविरचितं जन्मदिवसपञ्चकं सम्पूर्णम् ।