जय जय भारतमातः
रोम - रोम - रत - राष्ट्र - तरङ्गे
अङ्गे वङ्गे कलित - कलिङ्गे
नहि नहि, सकल - भरतभू - रङ्गे
जनयतु झन-झन-झन-झन् - घोषं तव करवाल-निपातः ।
वृद्धे, प्रौढे, तरुणे, बाले
वक्षसि, वदने, बाहौ, भाले
सकले देशे, सकले काले
वर्षतु भृशं क्रान्ति-जल-धारा विप्लव-जलद-घटातः ।
विकसतु ममता जने - जने ते
वसतु वसन्तो वने - वने ते
विलसतु विद्युद् घने - घने ते
अपि च, विपक्षि - पक्ष - पटले जायेत हिमानी-पातः ।
प्रतिजनमस्तु रुची रिपु - कदने
जयतु जयस्ते वदने - वदने
क्रीडतु ते श्रीः सदने - सदने
चत्वारिंशत्कोटिशिरोभिः प्रभवतु ते प्रणिपातः ।
-स्वर्गीय कविवर श्री श्रीशदत्तशास्त्रिणां
आजमगढवास्तव्यानाम् ।
Proofread by Mandar Mali