जय जय मङ्गलशीले
भारतमातः धीरे जननि!
जय जय मङ्गलशीले! ।
जनततिवन्दितधन्यधरित्री
लसताल्लसतान्नित्यम् ॥
जनहितपालननिरते धन्ये
तावकविजयपताका ।
गगने लसतादतिरुचिरा सा
पवनान्दोलितकलिका ॥
जनकोटिभिरतुलमनोज्ञा
वीरजनावलिभरिता ।
स्वतन्त्रभारतधरणी जननी
जयताज्जयदानिशम् ॥
सैनिकवीरैः रक्षितसीमः
विन्ध्यहिमाचलदेशः ।
सागरलहरीतरलिततीरः
सुन्दरसुरभिलदेशः ॥
शत्रूनखिलं दमनं कृत्वा
जय जय । जननि मनोज्ञे! ।
ऋषिजनवन्दित धरणी जयता-
ज्जयताज्जयतादनिशम् ॥
-- विजयन् वि. पट्टाम्बि