जय जयतु सुरवाणि
जय जयतु सुरवाणि ॥ धृ॥
वेदमन्त्रसामर्थ्यवर्धिनि
भारतरामायणविहारिणि ।
साङ्ख्ययोगवेदान्तबोधिनि
ज्ञानामृतनिर्झरिणि ॥ १॥
मन्त्ररूपिणि सूत्ररूपिणि
शास्त्ररूपिणि भाष्यरूपिणि ।
काव्यकलासङ्गीतरूपिणि
विपदहृदयमोहिनि ॥ २॥
त्वं सरस्वति काव्यरूपिणि
नानाविध गुणगणोद्भासिनि ।
शब्दार्थलङ्कारशोभिणि
रसालन्ददायिनि ॥ ३॥
विविध गिराम भारतेऽसि जननि
सुपरिपोषिणि बलविवर्धिनि ।
एकात्मकता समाधायिनि
सङ्घटनाकारिणि ॥ ४॥